________________ सटीकाद्वैतदीपिकायाम् युगपदनेकेषु पठत्सु युगपदनेकशब्दावच्छेदेन श्रोत्रमनःसंयोगे सत्यपि यच्छब्दविषयिणी जिज्ञासा तस्यैवाज्ञानं निवर्तते नान्यस्येत्यनुभवसिद्धम् / इच्छा च स्वगोचर एव हेतुः स्वापेच्छया गमनादर्शनात् / न चाविद्यानिवृत्तिविशिष्टमेव चैतन्यं जिज्ञासागोचरः / अविद्यानिवृत्तय एनं ज्ञातुमिच्छामीति जिज्ञासायास्तदगोचरत्वात् / अस्या अविानिवर्तकज्ञानगोचरत्वात् / परोक्षजिज्ञासानुपपत्तेश्च / तथा च शब्दान्तरे यद्विरहादज्ञानं न निवर्तते तदेवागन्तुकं ज्ञान जिज्ञासाजन्यवृत्तिः इत्यन्वयव्यतिरेकाभ्यां वृत्तिरप्पविद्यानिवृत्तौ साक्षात्कारणं तन्निवर्तकचैतन्याभिव्यक्षिका वा, वृत्तिप्रतिफलितचैतन्यस्यैवाविद्यानिवर्तकत्वात् / वृत्यन्वयव्यतिरेकयोश्च दण्डत्वविषययोरिवावच्छेदकविषयत्वेनाप्युपपत्तः / वृत्ते रविवानिवृत्तावुपयोगः सर्वथाप्युपयुज्यते ऽविद्यानिवृत्तौ वृत्तिः / एतेन तस्याः प्रकाशनिवत्यत्वादू वृत्तश्चाप्रकाशत्वादिति निरस्तम् / अविद्यायाः अनुभूयमानत्वान्न तदपह्नव इति चेत्तह्यस्मन्मतेऽप्यनित्यविषयत्वाहङ्कारधर्मत्वादिरूपेणानुभवान्नापह्नव इति तुल्यम् / किञ्च समनस्केन्द्रियसन्निकर्षे सत्यपि वृत्तिविरहादेवाविद्यानिवृत्तिविरहो दृश्यत इत्याह--किञ्च युगपदिति / ननु तादृशस्थले जिज्ञासाया अपि विशेषकारणत्वादन्यत्र तदभावादेवाविद्यानिवृत्तिविरहः, न तु वृत्तिविरहादित्यत आह--इच्छा चेति / इष्यमाणजनकत्वाज्ज्ञानस्यैवेष्यमाणत्वाच्च नाज्ञाननिवृत्तौ कारणतेत्यर्थः। तरविद्यानिवृत्तेरपीध्यमाणतया तत्साध्यत्वमित्याशङ्कय तद्धेतोरेवाऽगन्तुकस्येष्यमाणत्वमनुभूयत इत्याह--न चाविद्येति / परोक्षविषयेऽपि जिज्ञासादर्शनात्तत्राविद्यानिवृत्तेरसम्भवाजन्यज्ञानाभावे तदनपपत्तिरित्याह-परोक्षेति / जिज्ञासाया अविद्यानिवृत्त्यहेतुत्वसाधनफलमाह-तथा चेति / निवर्तकचैतन्यावच्छेदकत्वेन वृत्तेरुपयोग इति मतान्तरमाह--तन्निवतकेति / तर्हि तन्निरूपितवृत्त्यन्वयव्यतिरेकविरोध इत्यत आह--अन्वयेति / वृत्तेर्हतुत्वावच्छेदकत्वं मतद्वयेऽप्यावश्यकत्वमित्युपसंहरति-सर्वथेति /