________________ प्रथमः परिच्छेदः भूतमहङ्कारसमवेतघटादिविषयज्ञानातिरिक्तं ज्ञानान्तरमभ्युपेयमिति सिद्धम् / साक्षिणैवोपपत्ती वृत्यनपेक्षापूर्वपक्षः नन्वेवं तदेव ज्ञानमस्तु किमहङ्कारसमवेतवृश्या, तत एवानुसन्धानवनिखिलव्यवहारोपपत्तरिति चेत् / किं प्रयोजनाभावेन वृत्तिज्ञानमाक्षिपसि ? किं वा प्रमाणाभावेन ? अथवा अमितस्थ तस्य प्रयोजनं पृच्छसि ? नायः, जानामीत्यनुभवसिद्धस्यापहवायोगात् / न हि प्रयोजनाभावेनानुभवसिद्ध प्रत्याख्यातुं शक्यते / अत एव न द्वितीयः। जानामीत्यनुभवस्य सर्वानुभव. सिद्धत्वात् / अनुभवस्य स्वविषयताया निरस्तत्वात् / अनुभवान्यस्य तद्विषयस्य परिशेषावृत्तित्वात् / तृतीये कचिदविद्यानिवृत्तिः कचिद्व्यवहारः प्रयोजनम् / अपरोक्षवृत्तेः प्रयोजनाक्षेपः ननु चैतन्यमविद्यां निवर्तयतु किमनया वृत्त्या, तस्याः प्रकाशनिवय॑त्वात् / वृत्तेचाप्रकाशत्वात् / यदि चैतन्यस्याविद्यानिवर्तकत्वे तस्याः नित्यनिवृत्तिप्रसङ्गोनाज्ञानमेव न स्यात् / तर्हि मा भूदज्ञानं किनश्छिन्नमिति चेत् / मा भूत्ताववज्ञानमिति आक्षेपबीजं विकल्पयति--कि प्रयोजनेति / प्रयोजनशून्यस्याप्युपेक्षणीयविषयस्य बहुलमुपळम्भान्न प्रथम इत्याह- नाद्य इति / अनुभूयमानत्वात्प्रमाणाभावोऽसिद्ध इत्याह-अत एवेति / नन्वत्र साधितानुभवविषयतया प्रतीयत इत्यत आहअनुभवस्येति / तहींच्छादिरेव तद्विषय इत्याशङ्कय तस्य ज्ञानत्वप्रकारकानुभवागोचरत्वावृत्तिरेवेत्याह-परिशेषादिति / प्रयोजनप्रश्नपक्षे अपरोक्षवृत्तरविद्यानिवृत्तिः प्रयोजनं परोक्षवृत्तव्यवहार एवेत्याह--तृतीय इति / अपरोक्षवृत्तिप्रयोजनमाक्षिपति-नन्विति / वृत्तेर्जडतयाऽविद्यासमानस्वभावत्वात्तस्या न ततो निवृत्तिरित्याहतस्या इति / चैतन्यस्यानादित्वात्तन्मात्रनिवत्यत्वे अविद्येव न स्यादित्याशङ्कयेष्टापत्तिरित्याह पूर्ववादी-यदीति / भावरूपस्याज्ञानस्यानेकप्रमाणसिद्धत्वान्न तदपह्नवः शक्यो वक्तमित्याह-मा भूदिति। अहमज्ञ इत्यनुभवस्य ज्ञानाभावविषयतयाऽन्यथा