________________ 76 सटीकाद्वैतदीपिकायाम् पदनात्मत्वापादनं परोक्षज्ञानविषयत्वेऽपि परमाण्वाविवत् सुकरम् / प्रत्यक्षयोग्यस्य सतीन्द्रियसन्निकर्षादौ घटादिवत् स्वविषयज्ञानजनकत्वनियमात् / तस्मादहमनुभवगोचरएवाहमर्थ इति न वैशेषिकादिमतात्मन्युक्तदूषणनिस्तार इति / किच गुरुमतेऽप्येकविषयज्ञानधारानन्तरमेतावन्तं कालमिदमन्वभूमितिवदेतावन्तं कालं नेतः परमद्राक्षमितीतरज्ञानाभावानुसन्धानं सर्वानुभवसिद्धमनुपपन्नम् / घटज्ञानधाराकाले तदितरज्ञानाभावानुभवासम्भवात् // नेतः परमवाक्षमित्यस्यानुमितित्वखण्डनम् न च नेदमनुसन्धानं किन्तु तत्कालीनज्ञानाभावस्यानुमितिरिति वाच्यम् / एकज्ञानस्य तदितरज्ञानाभावेन व्याप्तिनिश्चयं विनापि तद्दर्शनात् / घटादिविषयज्ञानानुसन्धानशून्यस्यापि तत्काल एतावन्तं कालं पटं नान्वभूवमिति तज्ज्ञानाभावानुसन्धानदर्शनात्। तस्मादहमर्थतवृत्तितदभावसाक्षि नापि / प्रथमे घटादिप्रत्यक्षकाले तत्प्रकाशानुपपत्तिरित्याह-न एवमपीति / 'वषयतया प्रकाशः परोक्ष ज्ञानेनैवेत्याह--अहं सुखीति / ततः किमित्यत आह-विशिष्टज्ञानस्येति / द्वितीये किं प्रत्यक्षज्ञानस्यापि विषय उत न / आधे न विवादः / द्वितीय मङ्गीकारपरित्यागेन दूषयति- प्रत्यक्षविषयत्व इति / अहमर्थः स्वविषयज्ञानजनकः प्रत्यक्ष योग्यत्वे सतीन्द्रियसंयुक्तत्वाद्धटवदिति वैशेषिकादिमतमवलम्ब्याहप्रत्यक्षेति / गुरुमतेऽप्यात्मनो विषयत्वसाधनफलमाह-तस्मादिति / त्रिपुटीप्रत्यक्षमङ्गीकृत्यापि घटधाराकालीनतदितरज्ञानाभावस्यानुसन्धानं तन्मते ऽनुपपन्नमित्याह -किञ्चेति // नेतः परमद्राक्षमिति न स्मृतिः येन तदनुभवस्तत्कालेऽन्यः सिध्येत् , किन्तु स्मर्यमाणघटज्ञानेन तदितरज्ञानाभावानुमितिरित्याशङ्कयाह--न च नेदमिति / व्याप्तिनिश्चयं विनापीति / समूहालम्बनज्ञाने व्यभिचारादिति भावः / लिक ज्ञानाभावेऽपि जायमानत्वान्नानुमितिरित्याह--घटादीति / परमते चाराधनुसन्धानानुपपत्तेस्तत्प्रयोजकः स्वतन्त्रोऽनुभवः सिद्ध इत्युपसंहरति--तस्मादिति / साधितं स्वतन्त्रमनुभवमङ्गीकृत्याहमर्थधर्ममनित्यज्ञानमाक्षिपति-नन्वेवमिति /