________________ प्रथमः परिच्छेदः चेत् / न, ज्ञानव्यतिरिक्तस्य ज्ञानप्रयुक्ताज्ञानाद्यगोचरत्वेऽनुगत. ज्ञानविषयत्वं प्रयोजकं न तु कचिजज्ञानविषयत्वं क्वचित्तदाश्रयत्वमनुगतप्रयोजके सम्भवत्यननुगतस्याप्रयोजकत्वात् // रवप्रकाशसंविदाश्रयत्वनिराकरणम् किश्चाहमिति व्यवह्रियमाणो ज्ञानाश्रयो घटादिवल्लिङ्गाद्यननुसन्धानेऽपि व्यवह्रियमाणत्वादपरोक्ष इति तावत्सुप्रसिद्धम् / अपरोक्षत्वं चार्थस्य संविदभिन्नत्वम् / न च संविदतिरिक्तस्याहमर्थस्य संविदभिन्नत्वं वास्तवं भवति / ततः संविदि कल्पितोऽहमर्थो न संविदाश्रय इति विषयत्वप्रयुक्तमेव घटादिवत्तस्य संविदि भासमानत्वमिति / अस्तु तयहमर्थस्य परोक्षज्ञानविषयत्वमिति चेन्न / एवमपि प्रत्यक्षकाल आत्मनः प्रकाशानुपपत्तेः। अहं सुखीत्यादिविशिष्टानुभवाद्विशिष्टज्ञानस्य विशेष्यविषयत्वनियमाच्च / प्रत्यक्षस्याप्यहमर्थविषयत्वात् / प्रत्यक्षविषयत्वे चाऽहमर्थस्य घटादि दर्शनम् / अत्राननुगतं प्रयोजकमाह-तच्चेति / आत्मनः प्रतीयमानत्वाभिधानफलमाह-अत एवेति / विषयत्वाभाव एतदेव प्रतीयमानत्वं न सम्भवतीति दूषयतिनेति / यत्प्रकारकज्ञानं तत्प्रकारकसंशयाद्यगोचरत्वं तद्विषयस्यैव / अन्यथा रूपादिप्रकारकज्ञानाश्रयतया रूपित्वादिसंशयाद्यगोचरत्वप्रसङ्ग इति भावः। किं चानुगतमप्यनुपपन्नमिति दोषोऽपीत्याह- ज्ञानव्यतिरिक्तस्येति // _ इदानीं स्वमतानुसारेण स्वप्रकाशसंविदाश्रयत्वं निराकुर्वन् तेन रूपेणाहमर्थस्य संशयाद्यगोचरत्वमप्यनुपपन्नमित्यभिप्रायेणाह-किञ्चाहमिति / भवतु तर्हि संविदाश्रयतयैवापरोक्ष्यमित्यत आह-अपरोक्षत्वं चेति / एतच्च . शाब्दापरोक्षवादे निपुणतरमुपपादयिष्यत इति भावः / इदं च न तव मते सम्भवतीत्याह-न चेति / इदानी प्रत्यक्षज्ञानस्यैवाविषय इति द्वितीयं पक्षं शङ्कतेअस्तु तीति / तथा च तत एव स्थायित्वदेहव्यतिरिक्तत्वादिसिद्धिरिति परेषा-.. माशयः / आत्मनः प्रत्यक्षज्ञानविषयत्वे योऽनात्मत्वापातदोषः स परोक्षज्ञानविषयत्वेऽपि तुल्यः / तदभावमङ्गीकृत्यापि किं परोक्षज्ञानेनैवात्मप्रकाश उत प्रत्यक्षज्ञाने