________________ सटीकाद्वैतदीपिकायाम् अहमर्थस्य केवलज्ञानाश्रयत्वेन तद्धमित्वसिद्धिपरिहारः / तथाचारूपस्याहमर्थस्य रूपज्ञानाश्रयत्ववदेहादिव्यतिरिक्तत्वज्ञानाश्रयत्वोपपत्तन बालपण्डितयोविशेषः स्यात् / प्रत्यभिज्ञागोचरत्वाभावेऽहमर्थस्य स्थायित्वासिद्धेश्च / तत्कालमात्रा. वच्छिन्नस्य प्रत्यभिज्ञाश्रयत्वेन पूर्वकालावच्छिन्नात्माभेदस्य ततोऽसिडः। न च प्रत्यभिज्ञया आत्मैक्यसिद्धिरिति न ब्रमः किं तु स्मर्तृत्वानुपपत्यैव, अन्याश्रयानुभवादन्यस्य स्मृत्यनुपपत्तेरिति वाच्यम् / आनुपपत्तिकज्ञानस्याप्यात्माऽगोचरत्वे. ऽनुभवितृस्मौ रेकत्वासिद्धः तत्कालीन मात्रस्यैव तदाश्रयत्वात् / एवं कर्बभेदं विना भोक्तत्वानुपपत्तिरपि नाभेदसाधिका / नन्वर्थस्य ज्ञाने प्रतीयमानत्वं ज्ञानप्रयुक्ताज्ञानसंशयाद्यगोचरत्वं, तच घटादेविषयत्वप्रयुक्तं ज्ञानस्य स्वतः आत्मनस्तदाश्रयत्वप्रयुक्तमिति विशिष्टज्ञाने आत्मापि प्रतोयते। अत एवात्मा ज्ञानाश्रयत्वदेहव्यतिरिक्तत्वसामानाधिकरण्यविषयज्ञानेऽपि प्रती. यत इति तयोः सामानाधिकरण्यधोरिति पण्डितानां विशेष इति देहव्यतिरिक्तत्व विषयकज्ञानानयत्वमात्रेण तद्धर्मित्वसिद्धिरित्याशङ्कयाह-तथा चेति / यथाऽऽत्मनो रूपज्ञानाश्रयत्वज्ञानमात्रेण न रूपित्वं तत्कस्य हेतोः ? तद्वत्तया: ऽविषयीकृतत्वादेवां देहव्यतिरिक्तत्वज्ञानाश्रयत्वेऽपि तद्वलां न सिध्यतीत्यर्थः / किन तव मते आत्मनः स्थायित्वं किं प्रत्यभिज्ञया सिध्यति उत स्मर्तृत्वानुपपत्त्या आहो भोक्तत्वानुपपत्त्या ? / आयेऽपि किं तद्विषयत्वेन तदाश्रयतया वा ? नाद्यः विषयत्वानङ्गीकारादित्याह-प्रत्यभिज्ञेति / द्वितीयं दूषयति-तत्कालमात्रेति / द्वितीयमनूद्य दूषयति-न च प्रत्यभिज्ञयेति / अत्रापि किमनुपपत्तिजन्यज्ञानस्य विषयतया स्थायित्व सिद्धिरुताश्रयतया? नोभयथापीत्याह-आनुपपत्तिकेति / उक्तदोषं तृतीये ऽप्यतिदिशति--एवमिति / ननु विशिष्टज्ञानविषयत्वाभावेऽपि तत्र प्रतीयमानत्वमात्रेण धर्मधर्मभावसिद्धिः / प्रतीयमानत्वं च विषयत्वादन्यदेवेति चोदयति-नन्वर्थस्येति / ज्ञानप्रयुक्तेति / ज्ञानाधीनाज्ञानसंशयाद्यभाववत्वमित्यर्थः। अज्ञानं चाबविशेषा