________________ प्रथमः परिच्छेदः पत्तेः / द्वितीयेऽहमर्थों विषयो विषयज्ञानश्चेत्येतत्रितयातिरिक्ताहमर्थप्रकाशाभावात् / तस्य चाषालपण्डितमविशिष्टत्वात् / बालानामिव पण्डितानामपि व्यतिरिक्तात्मनिश्चयामावेन परलोकार्थप्रवृत्त्यनुपपत्तेः। ननु रूपादिज्ञानमात्मव्यवहारमाने हेतुः, तच्च पण्डितापण्डितसाधारणमात्मनो देहादिव्यतिरिक्तत्वज्ञानं देहादिव्यतिरिक्तात्मव्यवहारहेतु:, तच पण्डितानामेवास्तीति चेत् / न, अहं देहव्यतिरिक्त इति ज्ञानस्य तात्माऽविषयत्वे देहव्यतिरिक्तत्वस्योत्मधर्मत्वासिद्धेः। देहव्यतिरिक्त आत्मेति व्यवहारश्च न स्यात् / एवमहं सुखीत्यादिबुद्धेरण्यात्माविषयत्वे तेषामपि तधर्मत्वं न सिध्येत् / न च देहव्यतिरिक्तो ज्ञानाश्रय इति ज्ञानाज्ज्ञानाश्रयस्य देहव्यतिरिक्तत्वसिद्धिरिति वाच्यम् / देहव्यतिरिकत्वसमानाधिकरणज्ञानाश्रयत्वज्ञानस्याहमर्थाविषयत्वे ऽहमर्थस्य तदुभयधर्मित्वासिद्धः। अहमर्थाविषयानुभवेन देहव्यतिरिक्तत्वज्ञानाप्रयत्वयोः समानाधिकरणत्वासिद्धेश्च / अहमर्थस्यैव तदधिकरणत्वात् // ज्ञानव्यतिरेकेणात्मज्ञानाभावे पण्डितमूर्खवैषम्यं न स्यादित्याह-द्वितीय इति / ज्ञानविशेषात् पण्डितानां व्यवहारविशेष इति शङ्कते -नन्विति / देहादिव्यतिरिक्तत्वज्ञानमिति / देहः स्वव्यतिरिक्तद्रष्टकः दृश्यत्वादित्याद्यनुमानादिजन्यमित्यर्थः। किमात्मा परोक्षज्ञानस्याप्यविषय उत प्रत्यक्षज्ञानस्यैव / आधे देहव्यतिरिक्तत्वस्योक्तानुमानादात्मधर्मत्वासिद्धेस्तव्यतिरेकमात्रस्य माणामपि घटादौ प्रसिद्धत्वादित्यभिप्रेत्य दूषयति-न; अहं देहेति | आत्मनि तद्वैशिष्टयस्याज्ञातत्वात्तव्यबहारोऽपि न स्यादित्याह-देहेति ! किं च दुःखविशिष्ट ज्ञानाविषयस्यात्मनो घटादिपत्तद्धर्मित्वं न सिद्धयतीत्याह-एवमिति / ननु पण्डितानां देहव्यतिरिक्तत्वसामानाधिकरण्यप्रत्ययो विशेष इत्यत आह-न च देहेति / अधिकरणस्याविषयत्वे धर्मयोरपि सामानाधिकरण्यं न सिध्यतीत्याह-अहमर्थाविषयेति / /