________________ सटीकाद्वैतदीपिकायाम् अतो नाहकारसमवेत ज्ञान स्वप्रकाशमिति / एवमप्यन्यज्ञानधाराकालीनज्ञातुरनुसन्धानार्थं तडर्मातिरिक्तं ज्ञानान्तरं स्वीकर्तव्यम् / घटज्ञानधाराकाले ज्ञातृविषयानेकज्ञानस्वीकारे तस्यैवावकाश इति घटज्ञानधाराविच्छेदप्रसङ्गात्। अनङ्गीकारे वा एतावन्तं कालं जानन्नेवाहमासमित्यनुसन्धानानुपपत्तिः / रूपादिहोनस्यात्मनश्चाक्षुषज्ञानादिविषयत्वानुपपत्रः। न च विषयज्ञानाश्रयतयाऽऽस्मा प्रकाशत इति युक्तम् / मामहं जानामीति / तस्य विषयत्वानुभवात् आत्मा न चाक्षुषज्ञानजन्यव्यवहारगोचरः, तदविषयत्वात , स्पर्शवत् / न च ज्ञानानाश्रयत्वमुपाधिः। व्यवहारं प्रति ज्ञानाश्रयत्वस्येव तदभावे तदभावस्याप्यप्रयोजकत्वात् // ज्ञानाश्रयत्वेनात्मप्रकाशस्य दुनिरूपत्वम् किश्च विषयज्ञानाश्रयतयाऽहमर्थप्रकाश इति . पक्षे किं विषयज्ञानाधीनोऽहमर्थप्रकाशोऽन्यः स एव वा 1 नाद्यः तस्य निर्विषयत्वे ज्ञानत्वानुपपत्तेः / सविषयत्वे वा तस्यात्मविषयत्वा इत्याह-एवमपीति / घटज्ञानधाराया एव ज्ञातापि विषय इत्याशङ्कयाह-रूपादीति / चाक्षुषज्ञानविषयतया प्रकाशमानस्य द्रव्यस्यैव रूपादिमत्त्वनियम इति ज्ञातुराश्रयतया प्रकाशमानत्वमविरुद्धमित्याशङ्कय तस्य तद्विषयत्वमप्यनुभूयत इत्याहन च विषयेति / ननु मां जानामीति व्यवहारमात्रं न त्वयमनभव इत्याशङ्कय तस्य तद्विषयत्वाभावे तद्विषयव्यवहार एव न सम्भवतीत्याह-आत्मेति / स्पर्शस्य तज्जन्यव्यवहाराविषयत्वे तदनाश्रयत्वमेव प्रयोजकं न तु तदविषयत्वमित्याशङ्कयाह-न चेति / यदि व्यवहारविषयत्वे ज्ञानाश्रयत्वं प्रयोजकं स्यात्तर्हि तदभावे तदभावः प्रयोजकः स्यान्न च तदस्ति ज्ञानानाश्रयस्यापि रूपादेव्यवहारविषयत्वादित्यभिप्रेत्याह-व्यवहारं प्रतीति // ज्ञानाश्रतयाऽऽत्मा प्रकाशत इत्येतदेव दुनिरूपमित्याह-किञ्चेति / आये ऽपि किं सविषयो निर्विषयो वा ? द्वितीयं दूषयति-तस्येति / आद्ये ऽन्यस्य विषयस्याभावादात्मनो विषयत्वं स्यादित्याह-सविषयत्व इति / अनात्म