________________ प्रथमः परिच्छेदः नित्यस्य स्वविषयत्वं किन्न स्यादिति प्रत्युक्तम् / स्वविषयत्वासम्भवात् / “विज्ञानारमरे केन विजानीयात्' "अन्यदेव तद्विदितात्" इत्यादिश्रुतिरप्यात्मनो विषयत्वं पराकरोति / या चात्मनो विषयत्वे अतिरुदाहृता तदात्मानमेवावेदि"ति सा नात्मनः स्वविषयत्वपरा। किन्तु ब्रह्मातिरिक्तस्य वेदितव्यत्वाभावपरा / साव. धारणवाक्यस्येतरव्यावृत्तिपरत्वात्। अन्यथोदाहृतश्रुतिविरोधाच / तदात्मान रेवावेदित्यस्या यथार्थत्वे ऽपि न विरोवः अथवा वस्तुवृत्तापेक्षया जीव एव ब्रह्मशब्देनोच्यते / तस्य च वृतिविषयत्वान्नात्मानमेवावेदिति विरोधः / तस्मात् विज्ञातारमरे केन विजानीयादिति स्फुटम् / श्रुतिः साटोपमाह स्म तन्मे मतमिदं शुभम् // तथा तद्ब्रह्म विदितात्प्रकाशविषयादन्यदेवेत्यवधारणात् प्रकाशविषयत्वमात्रं निषिध्यते, तद्विरोधः स्यादित्यर्थः। अविषयत्वमपि श्रुतिविरुद्धमिन्याशङ्कयाविरोधमाह-~या चेति “किमु तद्ब्रह्मावेद्यस्मात् तत्सर्वमभवत्" इति पूर्ववाक्यस्थस्य यद्ब्रह्मज्ञानात् सर्वात्मको भविष्यति तद्ब्रह्म किं ज्ञात्वा सर्वात्मकमभूदिति प्रश्नस्योत्तरमिदं तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति / अत्र यदि स्वात्मानं ज्ञात्वा सर्वमभवदित्यर्थः कल्प्येत, तर्हि तस्यापि सर्वात्मत्वमस्मदादेरिव ज्ञानाधीनमिति तत्पूर्व संसारित्वं प्रसज्येत / अतो न यथाश्रुतश्रुत्यर्थो ग्राह्यः किन्तु ब्रह्म स्वत एव सर्वात्मकं अतो न तदन्यज्ज्ञातव्यमस्तीत्येवकारार्थो ग्राह्य इत्यर्थः / अन्यथा तत्परश्रतिविरोधश्चेत्याह-उदाहृतेति // "ब्रह्मवा इदम्” इति वाक्ये ब्रह्मशब्देन वस्तुतो ब्रह्मणो जीवस्याभिधानात्तस्य स्वविषयान्तःकरणवृत्तिमत्त्वाद्यथाते ऽपि न विरोध इत्याह-अथवेति / श्रुतिन्यायाभ्यामविषयप्रकाशात्मकमात्मतत्त्वं वैदिकैरभ्युपेयमित्युपसंहरति श्लोकेन -- तस्मादिति / साटोपम् साक्षेपम् / जन्यज्ञानस्य विषयत्वानुभवात् स्वविषयत्वस्य चासम्भवान्न तस्य स्वप्रकाशत्वमिति नित्यसाक्ष्यभावे धारानुसन्वानानुपपत्तिरिति परमप्रकृतमुपसंहरति-अत इति / जन्यज्ञानस्य स्वप्रकाशत्वमङ्गीकृत्यापि धाराकालीनज्ञातुरनुसन्धानाय तत्साक्षिरूपनित्यप्रकाशोऽङ्गीकर्तव्य