SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् सर्वत्वप्रकारकतज्ज्ञानस्येदानीमपि सत्त्वात् / सुखाहेतोस्तस्येच्छायोगाच्च। विनष्टाया इच्छायाः कालान्तरे प्रत्यक्षत्वायोगात्त. दिच्छाया अप्यनुपपत्तेः। प्रमेयत्वाद्याकारा वृत्तिरपि न स्वविषया। तत्र प्रमाणाभावात् / प्रत्यासत्याश्रयस्य सर्वस्य विषयत्वानियमात् / तदवच्छिन्नसाक्षिण एव तत्प्रकाशनसम्भवात् / प्रमेयत्वादिकमपि न स्ववृत्तीति न तदर्थमप्यभेदः सम्बन्धः / प्रकाशविषयत्वे प्रकाशस्य जडत्वापत्तेश्च / अतो नात्मनः स्वविषयत्वम् // प्रत्यासत्याश्रयः ।स्य न नित्यज्ञानवियत्यम् एतेन जन्यज्ञानस्यातिप्रसङ्गपरिहारार्थमस्तु स्वजनकेन्द्रियसनिकृष्टविषयत्वमित्यस्वविषयत्वं स्वरूपज्ञानस्य तु तदपि सामान्येन ज्ञातमेवेत्याह-न च ज्ञातेऽपीति / विशिष्य तज्ज्ञानमिष्यत इत्याशङ्कय काकदन्तपरीक्षावत् अप्रयोजकत्वान्मैवमित्याह-सुखेति / ननु सर्वगोचरप्रत्यक्षस्य सुखहेतुत्वेनाङ्गीकारात् इच्छापि विशिष्य जिज्ञास्यत इत्याशङ्कय तत्काले नष्टाया इच्छायाः सम्विदभिन्नत्वाभावेन प्रत्यक्षत्वमेवायुक्तमित्याहविनष्टाया इति / ननु ज्ञानजनकप्रत्त्यासत्त्याश्रयस्य ज्ञान विषयत्व नियमात् प्रमेयमिति ज्ञानस्यापि प्रमेयत्वाश्रयत्वात् स्वविषयत्वमावश्यकमित्याशङ्कय यो विषयः स प्रत्त्यासत्त्याश्रय इत्येव नियमो न तु यः प्रत्त्यासत्याश्रयः स विषय इति चक्षुरादौ व्यभिचारादित्यभिप्रत्याह--प्रत्यासत्तीति / कथं तर्हि तज्ज्ञानव्यवहारादिरित्यत आह-तदवच्छिन्नेति / यथा प्रमेयत्वस्याभेदसम्बन्धेन स्ववृत्तित्वमेवं ज्ञानस्याप्यभेदसम्बन्धेन स्वविषयत्वमित्याशङ्कय दृष्टान्त एवासम्प्रतिपन्न इत्याह-प्रमेयत्वादीति / किञ्च ज्ञानस्य प्रकाशविषयत्वे ऽप्रकाशत्वमेव स्यात् स्वप्रकाशत्वं तु दूरापास्तमित्यभिप्रत्याह-प्रकाशविषय इति / अत इत्युपसंहारः // प्रत्त्यासत्त्याश्रयत्वनियमस्यानित्यज्ञानविषयत्वान्नित्यज्ञानस्य स्वविषयत्वे न दोष इत्याशङ्कयाह-एतेनेति / ____एतेनेत्येतद्विवृणोति-स्वविषयत्वेति / आत्मनो विषयत्वं श्रुतिबाधितं चेत्याह ---विज्ञातारमिति / येनेदं सर्व विजानाति तं केन विजानीयादिति पूर्ववाक्ये स्वव्यतिरिक्तप्रकाशाविषयत्वमुक्त्वा विज्ञातारमिति वाक्येन स्वविषयत्वं निषिध्यते,
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy