________________ प्रथमः परिच्छेदः स्वविषयत्वं निबनानहम् किश्च किमिदं ज्ञानस्य स्वविषयत्वम् / स्वजन्यम्यवहारविषयत्वमिति चेन्न / ज्ञानातिरिक्त ज्ञानविषय एव ज्ञान व्यवहारं जनयतीति व्यवहारहेतुत्वप्रयोजकज्ञानविषयत्वस्य तदभेदानुपपत्तेः / नापि तद्योग्यता। तस्या अपि घटादौ ज्ञानविषयत्वयोग्यतानिर्वाह्यत्वात् / अत एव न ज्ञानजन्यज्ञातताश्रयत्वादिकं घटादौ यद्विषयत्वं तदेवेति चेत्, न, स्वरूपसम्बन्धविशेषो हि . घटादेविषयत्वं स च भेदनिष्ठ एव // अभेदस्य न सम्बन्धत्वम् अभेदश्च न सम्बन्धः / रूपी घट इतिवद्रूपं रूपीत्यननुभवात् / सर्वजिज्ञासादेरपि विषयिविषयत्वप्रयोजकधर्मभेदेन तेन रूपेण कल्पितभेदसत्वात् / अथवा सर्वजिज्ञासादेन स्वविषयत्वं तस्य विशिष्यज्ञातत्वात् / न च ज्ञातेऽपि रूपान्तरेण जिज्ञासा / - किं स्वजन्यव्यवहारविषयत्वं स्वविषयत्वमुत तद्योग्यत्वमाहो स्वजन्यज्ञातताधारत्वमथवा घटादौ यत्स्वविषयत्वं तदेवेति किं शब्दार्थः। आद्यमनुवदति-स्वजन्येति / अस्माभिरपि स्वजन्यव्यवहारविषयत्वाङ्गीकारासिद्धसाधनं स्फुटमिति मत्वा परमत इदमयुक्तं चेत्याह-न ज्ञानेति / ज्ञानविषयत्वस्य व्यवहारविषयत्वप्रयोजकतायास्त्वयैवोक्तत्वात्तदेव तदित्यनुपपन्नमित्यर्थः / द्वितीयेऽपि तद्योग्यतावच्छेदकत्वेन ज्ञानविषयत्वयोग्यता पृथग्वक्तव्येत्यभिप्रेत्याह-नापीति / ज्ञातताधारत्वस्यापि ज्ञानविषयत्वप्रयोज्यत्वान्न तृतीयोऽपीत्याह-अत एवेति / चतुर्थ शङ्कते-घटादाविति / ज्ञानभिन्नस्वरूपविशेषस्यैव तत्र विषयरूपत्वात्स्वस्मिंस्तदसम्भव इति दूषयति-न स्वरूपेति // अभेदो ऽपि स्वरूपसम्बन्धो भवत्वित्याशङ्कयाह-अभेदश्चेति / अभेदस्य सम्बन्धत्वे रूपे रूपवैशिष्ट्यप्रत्ययः स्यात् / न च रुपे रूपं नास्तीति वाच्यम् / मत्वर्थप्रत्यये सम्बन्धमात्रस्यापेक्ष्यत्वात् / अन्यथा गोमानित्यादिप्रत्ययो न स्यादित्यर्थः। यदुक्तं सर्वजिज्ञासादेः स्वविषयत्वं दृष्टमिति तदङ्गीकृत्य सर्वत्वेच्छात्वरूपभेदेन तदुपपत्तिमाह-सर्वजिज्ञासेति ; अङ्गीकार परित्यजति-अथवेति / इच्छात्वेन ज्ञातेऽपि गुणत्वादिरूपेण जिज्ञासेत्याशङ्कय