________________ सटोकाद्वैतदीपिकायाम् न च ज्ञानत्वे सति स्वविषयत्वं प्रकाशत्वमिति वाच्यम् / लाघवेन ज्ञानस्वरूपविशेषस्यैव प्रकाशत्वपयोजकत्वात् / तथा च स्फुरगमनुभवगोचरः व्यवहारविषयत्वादिति स्फुरणस्य स्वगोचरत्वसाधकमनुमानमप्रयोजकम् / ज्ञानस्य स्वविग्यसंशयादिविरोधित्वम् एतेन ज्ञानस्य स्वविषयसंशयविरोधित्वादयोऽपि व्याख्याताः। घटाद्याकारजन्यज्ञानस्य स्फुरणवेद्यत्वेन संशयविरो धित्वाद्युपपत्तेः स्वरूपज्ञानस्य वृत्तिमहिम्नैव तदुपपत्तेरिति / द्वेषस्तु स्वविषय एव निवृत्तिहेतुस्तथैवान्वयव्यतिरेकदर्शनात् / ज्ञानं तु प्रकाशत्वेन तदभेदेन च ज्ञानव्यवहारहेतुः। विषयत्वं विनापि स्वस्य प्रकाश इत्युक्तम् // तृतीये विशेषणस्यैव प्रयोजकत्वे सति न विशिष्टस्य प्रयोजकत्वं गौरवादित्याह-न च ज्ञानत्वे सतीति / जडव्यावृत्तज्ञानस्वरूपविशेषस्येत्यर्थः / व्यवहारसामान्य कारणादेव स्फुरणव्यवहारोपपत्तिसाधनफलमाह-तथा चेति / यदप्युक्तं ज्ञानस्य स्वविषयत्वाभावे स्वविषयसंशयादिविरोधित्वं न स्यादिति, तदपि वक्ष्यमाणप्रकारेण निरस्त. मित्याह-एतेनेति / तत्र किं वृत्तिज्ञानस्य संशयादिविरोधित्वानुपपत्तिरुतात्मरूपज्ञानस्य ? नाद्य इत्याह - घटाद्याकारेति / द्वितीये घटाद्याकारवृत्तिमदन्तःकरणाभिव्यक्तरूपविशेषादेव सत्ताप्रकारकसंशयादिविरोधित्वमित्यभिप्रेत्याह-स्वरूपज्ञानस्येति / द्वषे द्वेषकार्यादर्शनात्तद्विषय एव तत्कार्यमिति वैषम्यमाह -द्वेषस्त्विति / ननु ज्ञानव्यवहारस्य कार्य विशेषत्वात्सामान्य कारणातिरिक्तविशेषकारणजन्यत्वं वाच्यम् , अन्यथा कार्यविशेषस्याकस्मिकत्वप्रसङ्गादित्याशङ्कय नायमस्ति नियमः सः स्वतस्त्ववादिभिरसति दोषे ज्ञानसामान्यसामग्रीत एव प्रमारूपकार्यविशेपाङ्गीकारात्। सर्वैरपि वादिभिरसत्यां स्मृतिसामग्रयां ज्ञानसामान्यसामग्रीत एवानुभवरूपकार्य विशेषाङ्गीकारादित्यभिप्रत्याह-ज्ञानं विति। विशेषकारणेन भवितव्यमित्यभिनिविशमान प्रति तदप्यस्तीत्याह-तदभेदेन चेति / यद्यप्यस्मन्मते शास्त्रगम्यो ऽभेदः प्रकाशस्वरूप एव तथाप्यविद्यादशायां भेदप्रतियोगिकाभेदस्य धर्मरूपस्याङ्गीकाराद्विशेषकारणसिद्धिरिति भावः / सामान्यकारणमुक्तं स्मारयतिविषयत्वमिति / स्वविषयत्वस्य निर्वक्तुमशक्यत्वाच्च तदनुमानमयुक्तमित्याह-किञ्चेति /