________________ प्रथमः परिच्छेदः इति चेन्न / तदनाश्रयस्यापि तद्विषयत्वे तवेश्वरज्ञानवदविरोधात् / किं च व्यवहारमात्रे व्यवहर्तव्यज्ञानं प्रकाशत्वेन हेतुर्नतु व्यवहर्तव्यविषयप्रकाशत्वेन / गौरवेण तस्य तेन रूपेणाप्रयोजकत्वात् / ज्ञानव्यवहारविशेषे च ज्ञानमेव व्यवहर्तव्यं प्रकाशश्चेति किं तद्विषयत्वेन / नन ज्ञानं स्वविषयत्वाभावे स्वस्य प्रकाश एव न भवतीति चेत् / किं षष्य॑र्थसम्बन्धार्थ विषयत्वमपेक्षणीयं किंवा तस्य प्रकाशत्वार्थम् ? नाद्यः। भेदाभावेनाभेदस्वरूपातिरिक्तसम्बन्धस्यानपेक्षितत्वात् / कथञ्चिदभेदस्यैव षष्ट्यर्थत्वात् / न द्वितीयः / न हि ज्ञानस्य विषयत्वप्रयुक्तं प्रकाशत्वं किं तु ज्ञानस्व'रूपविशेषप्रयुक्तम् / अन्यथेच्छादेरप्यर्थप्रकाशत्वापत्तेः / तस्याप्यर्थविषयत्वात् / न च स्वविषयत्वमेव प्रकाशत्वं तत्रेच्छादेरिति पाच्यम् / सर्वजिज्ञासायाः स्वविषयत्वात् // तत्सन्निकर्षेति / तजनकसन्निकर्षानाश्रयस्येत्यर्थः / साक्षिणः स्वविषयत्वमङ्गीकृत्य जन्यप्रत्यक्षज्ञानविषयस्यैव जनकसन्निकर्षाश्रयत्वनियम इत्यभिप्रेत्याहन तदनाश्रयस्येति / अङ्गीकारपरित्यागेन सिद्धान्तमाह-किञ्चेति / यथा आलोकस्य स्वाविरुद्धविषयचाक्षुषज्ञानमात्रे आलोकत्वेन कारणत्वं स्वव्यतिरिक्तस्वाविरुद्धविषयकचाक्षुषज्ञाने विषयसम्बन्ध्यालोकत्वेन स्वविषयज्ञाने तु स्वाभेदेनैव कारणत्वमेवं व्यवहर्तव्यज्ञानं व्यवहारमात्रे प्रकाशत्वेन कारणं स्वव्यतिरिक्त विषयकव्यवहारे तद्विषयकप्रकाशत्वेन स्वव्यवहारे तु स्वाभिन्नप्रकाशत्वेनेति स्वस्मिन्नपि सामान्यक्लुप्तकारणस्य सत्वान्न पक्षादन्यत्रैवायं नियम इत्युपालम्भस्यावसर इत्यभिप्रेत्याह-व्यवहारमात्र इति / ज्ञानस्य स्वविषयत्वाभावे व्यवहर्तव्यप्रकाश इति सामान्यप्रयोजकमपि न सम्भवतीति शङ्कते-ननु ज्ञान मिति / विषयत्वस्योपयोगो नास्तीत्यभिप्रायेण विकल्पयति-किं षष्ठयर्थति / सम्बन्धस्य भेदसमानाधिकरणत्वाद्विपयत्वाभ्युपगमे ऽप्यनुपपत्तिस्तुल्येत्यभिप्रत्याह-नाद्य इति / कथं तर्हि षष्ठीप्रयोग इत्याशङ्कथ त्वयाप्युपचाराद्वक्तव्य इत्यभिप्रेत्याह--- कथंचिदिति / द्वितीये विषयत्वमानं किं प्रकाशत्वे प्रयोजक उत स्वविषयत्वं अथवा ज्ञानत्वे सति स्वविपयत्वं ? नाद्यः व्यभिचारादित्याह-नहीति / अज्ञानादिविरोधित्वं ज्ञाने स्वरूपविशेषः / द्वितीयमपि व्यभिचारेण दूषयति-न च स्वविषयत्वमिति ||