________________ सटीकाद्वैतदीपिकायाम् तदभेद एवेति वदितुं कथं न लजसे / न चानुभवविरोधः / अनुभवो ह्यहङ्कारधर्मज्ञानस्य विषयत्वे साक्षी न तु स्वविषयत्वे / विषयत्वं च ज्ञानान्तरवेदात्वेऽपि सम्भवति। तच्च ज्ञानमनुव्यवसायो नेत्युक्त मित्यनुभवानुमानाभ्यामेवाहङ्कारधर्मातिरिक्त ज्ञानं तत्साक्षी सिध्यति / अतएव त्वदुक्तानुमानमपि सिद्धसाधनम् / न च चैत्रजन्यानुभवविषय इति साध्यम् / अप्रयोजकत्वात् / व्यवहारस्यानुभवविषयत्वमात्रेणोपपतेः। अत एव परोक्षवृत्तिमिथ्यात्वानुमित्यादेश्च न स्वविषयत्वं, न वा तदसिडिः / तदभिव्यक्तसाक्षिण एव तत्सिडेः। नन्वलौकिकज्ञानाभ्युपगमे गौरव मिति चेन्न / त्वदभ्युपगतपरमात्मचैतन्यस्यैवास्माभिरहङ्कारतवृत्तिसाक्षिजीवस्वरूपतयाऽभ्युपगमात् // स्वेनैव साक्षिव्यवहारे विकल्पयोजनम् ननु तदपि ज्ञानं स्वविषयं न वा ? न चेत् तविषयव्यवहारो न स्यात् / प्रथमे तत्सन्निकर्षानाश्रयस्य तद्विषयत्वविरोध विरोध इत्यत आह -- न चेति / जन्यज्ञानस्य वेद्यत्वमात्रमनुभूयते न तु स्ववेद्यत्वम् / वेद्यत्वं च साक्षिविषयत्वेऽप्युपपद्यत इत्याह- अनुभवो हीति / साक्षिप्रमाणमिति यावत् / अनुव्यवसायातिरिक्तं जन्यज्ञानविषयजीवप्रत्यक्षं तद्भिन्नमस्मदभिमतसाविज्ञानमेवेत्युपसंहरति-इत्यनुभवेति / यदुक्तं चैत्रसमबेतं ज्ञानं चैत्रापरोक्षानुभव विषय इति तत्र किं साध्यं यथाश्रतमेवोत चैत्रजन्यमिति विवक्षितम् / आधे चैत्रस्वरूपसाक्षिविषयत्वमिष्टमित्याह- अत एवेति / द्वितीये हेतुरप्रयोजक इत्याहन च चैत्रेति / यच्चोक्त व्याप्तिज्ञानमिथ्यात्वानुमित्यादेः स्वविषयत्वं धक्तव्यमिति तदपि साक्षिविषयत्वाभ्युपगमादेव निरस्त मित्याह-अत एवेति / ननु स्व विषयत्वनिराकरणेन नित्यज्ञानविषयत्वसाधने ऽलौकिकज्ञानकल्पनागौरबमित्याशङ्कयोभयवादिसिद्धनित्यज्ञानस्य जीवस्वरूपत्वमात्रसाधनान्मैवमित्याह-नन्वित्यादिना // ननु साक्षिव्यवहारः स्वेनैव भवति, उतान्येन / द्वितीयेऽनवस्थेत्यभिप्रेत्याद्यमपि विकल्प्य दूषयति-ननु तदपीति /