________________ प्रथमः परिच्छेदः 63 नभवस्य च वृत्तिज्ञानस्य स्वाभेदे सत्यपि स्वविषयत्वव्यतिरेकेण स्वविषय इव स्वस्मिन्नपि व्यवहारादिहेतुताया अदर्शनाच। वृत्तेरपि स्वव्यवहारहेतुत्वे स्वप्रकाशत्वापत्तः॥ एकस्य विषयविषयिभावो विरुडः . ननु स्वस्य स्ववेद्यत्वं विरुद्धमिति चेन्न, तत्किमिति विरुद्ध ? किं साक्षात्कारस्य विषयजन्यत्वात् स्वस्य च स्वजन्यत्वायोगात्, किं वा साक्षात्कारे स्वजनकेन्द्रियसनिकृष्टस्यैव स्वविषयत्वात् स्वजनकेन्द्रियसन्निकर्षकाले स्वस्याभावात्। यहा विषयविषयि. भावस्योभयनिष्ठत्वादेकस्मिंस्तदयोगात्। नाद्यद्वितीयौ,स्वप्रकाशस्यात्मस्वरूपज्ञानस्य तयोरभावात् / न तृतीयः, अतीतारोपितात्यन्नासतां ज्ञानदर्शनेन तस्योभयानिष्ठत्वात् / ननु ज्ञानस्यैव ज्ञेयत्वे क्रियाकर्मत्वादिविरोध इति चेन्न / कृतिविशेषस्य क्रियात्ववदुपपत्तेः। भावादेव स्वस्मिन् स्वप्रयुक्तकार्याभावो दृष्टः, एवं ज्ञानेऽपि स्यादित्याहदुःखादीति / किं च तव मते ऽपरोक्षस्थले स्फुरणस्य व्यवहारजनकत्वेऽपि परोक्षस्थले वृत्तेरेव व्यवहारहेतुत्वं स्वबिषय एवाङ्गीकृतं न तु स्वस्मिन् / तत्कस्य हेतोः स्वविषयत्वाभावादेव, एवमन्यत्रापि स्यादित्याह-स्मरणेति / परोक्षवृत्तः स्वविषयव्यवहारहेतुत्वे को दोषस्तत्राह-वृत्तेरपीति / तथा च साक्षिरूपानुभवो न सिध्यतीति भावः // एकस्य विषयविषयिभावो विरुद्ध इति चोदयति-नन्विति / विरोधप्रयोजक विकल्पयति-तत्किमिति / साक्षिप्रत्यक्षविषयाहकारादेस्तजनकत्वतजनकेन्द्रियसनिकृष्टत्वयोरभावेऽपि तद्विषयत्वाङ्गीकारान्नेमौ नियमाविति दूषयति-नाद्यद्वितीयाविति / जन्यप्रत्यक्षविषयस्यायं नियम इति चेत्तर्हि स्वव्यतिरिक्तप्रत्यक्षविषयस्यैवायं नियमोऽस्त्विति भावः। तृतीये अतीतादिज्ञानानां निर्विषयत्वप्रसङ्ग इत्याह-न तृतीय इति / ज्ञानं स्वकर्मकं न भवति क्रियात्वात् गमनादिवदिति चोदयति-नन्विति / परिस्पन्दलक्षणक्रियात्वं ज्ञाने ऽसिद्धं, धात्वर्थलक्षणक्रियात्वमनित्यकृतौ व्यभिचारीति दूषयति-न कृतीति / ननु कर्मलक्षणपर्यालोचनायां नैकस्य क्रियाकर्मत्वमुपपद्यते अनित्यकृतेस्तु नित्यकृति प्रति कर्मत्वान्न व्यभिचार इति चोदयति-ननु परेति / अतीतादावुलक्षणा