________________ सटीकाद्वैतदीपिकायाम् ननु परसमवेतक्रियाफलशालित्वं कर्मत्वं, तत्कथमेकस्मिन्नेव क्रियात्वं कर्मत्वं च, कृतिस्तु कृत्यन्तरस्यैव कर्मेति चेन्न / क्रियाविषयत्वस्यैव कर्मत्वात् / ननु कतु : कर्मत्वं विरुद्धमिति चेन्न / ज्ञानस्यातकर्तृत्वात् / विषयिणो विषयत्वं विरुद्धमिति चेन्न / अज्ञानसाक्षिणो ब्रह्मणोऽज्ञानविषयत्वात् / "तदात्मानमेवावेत्" इति श्रुतेश्च // स्वप्रकाशस्वोपसंहारः ज्ञानस्य स्वविषयत्वाभावे सर्वोपसंहारेण व्याप्तेमिथ्यात्वानुमितेश्च स्वविषयत्वं न सिध्येत् / तस्माच्चैत्रसमवेतमयं घट इति ज्ञानं चैत्रापरोक्षानुभवविषयः, चैत्रस्यापरोक्षव्यवहारविषयत्वात् , घटवदित्यनुमानात् जानामीत्यनुभवाच परिशेषाज्ञानं स्वविषय इति // सम्भवादन्यदेव कर्मलक्षणमित्याह-न क्रियेति। कर्तुगुणत्वात्कर्मणः प्राधान्यादेकस्य तदुभयरूपत्वं विरुद्धमिति शङ्कते-ननु कत्तुरिति / ज्ञानस्य स्वाश्रयत्वानङ्गीकारान्न कर्तृत्वमित्याह-न ज्ञानस्येति / विषयित्वे विषयत्वं न स्यादिति शङ्कते-विषयिण इति / एकमज्ञानं प्रत्येकस्यैव ब्रह्मणो विषयत्वं विषयित्वं च दृष्टमिति परिहरति-न अज्ञानेति / ननु विषयोऽस्यास्तीति विषयीत्युच्यते, एकस्य तु स्वेन सम्बन्धाभावेन षष्ठयर्थाभावान्न स्वविषयत्वमिति चेन्न। अभेदसम्बन्धसम्भवादिति भावः / अतिरेव ब्रह्मणः स्वविषयत्वं दर्शयतीत्याह-तदात्मानमिति / तद्ब्रह्म आत्मानमवेत् , ज्ञातवदित्यर्थः // ___ यत्कार्य तत्सकारणकमित्यादिव्याप्तिग्रहे स्वस्यापि कार्यत्वाद्विषयत्वं बक्तव्यं, प्रपञ्चो मिथ्येत्यनुमाने स्वस्यापि पक्षत्वेन विषयत्वं वक्तव्यमन्यथा दोषमाह-ज्ञानस्येति / तकितेऽर्थे प्रयोगमाह-तस्मादिति / चैत्रपरोक्षज्ञानस्य पक्षत्वे बाधः स्यात्तनिवृत्त्यर्थमयं घट इति विशेषणम् / मैत्रज्ञानव्यवच्छेदार्थ चैत्रसमवेतमिति / ईश्वरज्ञानविषयत्वेनार्थान्तरतानिवृत्तये साध्ये चैत्रपदम् / चैत्रपरोक्षज्ञानविषयत्वेन सिद्धसाधनतानिवृत्तये अपरोक्षपदम् / मैत्रसुखे चैत्रव्यवहारपदे व्यभिचारपरिहारार्थ हेतौ चैत्रपदमपरोक्षपदं च / ननु चैत्रानुव्यवसायविषयत्वेनार्थान्तरतेत्याशङ्कय तस्य निरस्तत्वादनवस्थापत्तेश्च स्वविषयत्व सिद्धिरित्याह-परिशेषादिति // नवीनमतं दृषयितुमुपक्रमते-अत्रेति /