________________ पर सटीकाद्वैतदीपिकायाम् प्राभाकरस्थ पूर्वपक्षः नन्वस्तु तीहङ्कारसमवेतं ज्ञानं स्वप्रकाशं धारानुसन्धानादिकस्य सर्वस्योपपत्तय इति चेन्न / जानामीति तस्य ज्ञानविषयत्वानुभवात् / घटादेरपि विषयत्वेऽनुभवस्यैव मानत्वात् / न चेदं ज्ञानं भ्रमः / बाधकाभावात् / चक्षुरादिजन्यज्ञानं, न स्वप्रकाशं, कार्यत्वात्, रूपवत, विपक्षे च जानामीत्यनुभवायोगो बाधकः। स्वविषयत्वं स्वप्रकाशत्वमिति स्वीकर्तुमंतानुवादः अन नवीनः / ननु ज्ञानस्य विषयत्वानुभयो धोस्वप्रकाशत्वेन न विरुध्यते। स्वविषयत्वस्यैव स्वप्रकाशत्वे ऽविरोधात् / अन्यथा स्वव्यवहारहेतुत्वसंशयविरोधितादेरयोगात् / न च ज्ञानस्य स्वस्मादन्यत्र व्यवहारजनने स्वविषयत्वं तन्त्रं, स्वस्मिंस्तु स्वाभेद एवेति युक्तम् / पक्षादन्यत्रैवायं नियम इत्यस्य सर्वत्र सुवचत्वात् / दुःखादिविषयस्य द्वेषस्य स्वाभेदे तस्यापि स्वविषयत्वव्यतिरेकेण दुःखादाविव स्वस्मिन्निवृत्तिहेतुत्वस्य स्वेच्छाविरोधित्वस्य चादर्शनात् / स्मरणरूपस्य परोक्षा अहमर्थसमवेतज्ञानस्य ज्ञातृज्ञानज्ञेयप्रकाशात्मकत्वाद्धाराद्यनुसन्धानो. पपत्तिरिति प्राभाकरः प्रत्यवतिष्ठते-नन्वस्त्विति / अवेद्यस्य स्वप्रकाशत्वादस्य च वेद्यत्वान्न स्वप्रकाशत्वं, नापि त्रिपुटीप्रकाशत्वं चेत्यभिप्रेत्य दूषयति-न जानामीति। जानामीति ज्ञाने हि ज्ञानमाकारः, आकारश्च विषय एवेत्यर्थः / जन्यज्ञानस्यास्वप्रकाशत्वे ऽनुमानमपि मानमित्याहचक्षुरादीति / ननु नावेद्यत्वं स्वप्रकाशत्वं, किन्तु स्वविषयत्वं तथा च जन्यज्ञानं स्वविषयत्वात्स्वप्रकाशमिति नवीनमतमनुवदति-अत्रेति / ज्ञानस्य स्वविषय एव संशयादिविरोधित्वं व्यवहारहेतुत्वं च घटादिविषये दृष्टं स्वस्यापि विषयत्वाभावे स्वस्मिंस्तदुभयं न स्यादित्याह-अन्यथेति / ज्ञानादन्यत्रैव व्यवहारः स्वसमानविषयज्ञानजन्यः, ज्ञाने तु नैवमित्याशयानुमानमात्रोच्छेदापाता. वमित्याह-न च ज्ञानस्येति / किं च द्वेषस्य स्वाभेदे सत्यपि स्वविषयत्वा.