________________ प्रथमः परिच्छेदः सत्यपि सुखानुत्पत्तौ तस्य तदहेतुत्वप्रसङ्गात् / न च सुखानन्तरं विनश्यदवस्थेष्टविषयज्ञानात्तदनुव्यवसाय इति वाच्यम् / सुखस्यावश्यवेद्यत्वनियमेन तज्ज्ञानात्पूर्वं तस्य नष्टत्वात् / न च ज्ञानसुखयोः समूहालम्बनम् / तयोःसहोपस्थितिनियमे पौर्वापर्यस्य दुर्घहतया कार्यकारणत्वस्य दुर्ग्रहत्वात् / परिशेषस्य दुरवधारणतयेष्टदर्शनार्थिप्रवृत्यनुपपत्तेः। न च सुखमिष्टज्ञानजन्यम् तद्विषयकृतिजन्यत्वात् संमतवदित्यपि। एवमपि कृत्यनन्तरभावीष्टज्ञानस्य कारणत्वासिद्धः। व्यभिचारादप्रयोजकत्वाच। कृतिपूर्वज्ञानस्यापि कृतिकार्य न हेतुत्वमिति वक्ष्यते / एतेन सुखानुमितेष्टज्ञानमनुसन्धीयत इति निरस्तम् // इष्टज्ञानस्य निर्विकल्पद्वारेणानुव्यवसायोत्पत्तिसमये नष्टस्यानन्तरं न सुखजनकत्वमित्याह / न, अनुव्यवसायेति / किञ्चष्टज्ञानस्य सुखं प्रति चरमकारणस्वात्तदनन्तरक्षण एव तदनुत्पत्तौ तत्कारणत्वमेव न स्यादित्याह-इष्टज्ञान इति / इष्टज्ञानं द्वितीयक्षणे सुखमुत्पाद्य तृतीयक्षणे ऽनुव्यवसायविषयो भविष्यतीत्याशङ्कथ तदा सुखज्ञानस्यावश्यम्भावित्वान्नानुव्यवसायावकाश इत्याह-न च सुखेति / नन्विष्टज्ञानमपि विषयीकृत्योत्पद्यमानं सुखज्ञानं समूहालम्बनरूपं भविष्यतीत्याशङ्कय तथासति सव्येतरविषाणवत्सहोपस्थितत्वात् कार्यकारणभावग्रहायोग इत्याहन च ज्ञानेति / ननु सुखं सकारणकं कार्यत्वादिति सामान्यतस्तत्सिद्धौ परिशेषादिष्टज्ञानमिति सिध्यतीत्याशङ्कयाह -परिशेषस्येति / इष्टज्ञानस्य तव मते ऽनुपस्थितत्वाद्वस्तुतस्तद्धेतोरेव कारणत्वसम्भवान्न परिशेष इत्यर्थः। तर्हि सुखत एवेष्टज्ञानस्य कारणत्वमनुमीयत इत्याशङ्कयाह-न च सुखमिति / सम्मतवदिति / तन्तुविषयकृतिजन्यस्य पटस्य तन्तुज्ञानजन्यत्ववदित्यर्थः। कृतिजनकज्ञानस्य कृतिकार्ये कारणत्वं कुत्रापि नास्ति, अङ्गीकृत्याप्याह-एवमपीति / कृत्यनन्तरभावितन्त्वादिविषयज्ञानस्य पटकारणत्वाभाववत् कृत्यनन्तरभाविस्पशनचन्दनादिज्ञानस्य सुखहेतुत्वं न सिध्येदित्यर्थः। किञ्च तव मते कृतिविषयज्ञाने व्यभिचारः, तदतिरिक्तत्वे सतीत्युक्तेऽप्रयोजक इत्याह-व्यभिचारादिति / अङ्गीकारं परित्यजति-कृतिपूर्वेति / वक्ष्यत इति / ईश्वरवादे इत्यर्थः / सुखस्येष्टज्ञानकार्यत्वानिश्चयादेव सुखेन तदनुमाने तदनुसन्धानमिति प्रत्युक्तमित्याह-एतेनेति //