________________ सटीकाद्वैतदीपिकायाम् ऽपीति चेन्न / मध्ये ज्ञानकल्पने प्रमाणाभावादगौरवाच / ज्ञानान्तरस्य स्मृतित्वानुसन्धानाभावेन ततो मूलानुभवानुमानानुपपः / परिशेषास्मृतित्वावधारणमिति चेन्न। एवम्प्रणाडीमविदुषोऽपि वर्णितप्रतिसन्धानदर्शनात् / अनुभवस्य स्मृतिहेतुत्वाज्ञानसंशयविपर्यासदशायामप्यनुसन्धानदर्शनादनुमानानुप . परेः / एवमिष्टविषयज्ञानानन्तरमेव सुखं जायते न तु तदनुव्यवसायात् / इष्टज्ञानस्यैव तहेतुत्वात् / सुखं चोत्पन्नमवश्यं ज्ञातव्यमिति कथमिष्टज्ञानानुसन्धानं भवेत् // सुखज्ञानकाल एव तस्य नष्टत्वात्। . ननु सुखात्पूर्वमिदमिष्टज्ञानानुसन्धानमिति चेन्न / अनुव्यवसायकाले विनष्टस्येष्टज्ञानस्य सुखाहेतुत्वात् / इष्टज्ञाने चिद्वर्णानां तत्संख्याया वा ग्रहणायोगान्मध्ये ऽनुव्यवसायकल्पने द्वादशनामश्रवणानुपपत्तिस्तदकल्पने चाऔषमित्यनुसन्धानानुपपत्तिरिति कष्टां दशामापन्नो. यमनुसन्धानतपस्वी हि / न च नैरन्तर्येण वर्णानामुत्पत्तिरसम्भविनी बहुवक्तृकेषु तत्सम्भवात् / मध्ये मध्ये ऽनुब्यवसायाभावेपि सर्ववर्णज्ञानानुभवोऽनुमानात्सिध्यतीति शङ्कते-ननु द्वादशेति / घटादिधाराया अप्येवमेवानुसन्धानमित्याह एवमिति / अनुसन्धानात्पूर्वमनुमितिज्ञानमनुपलब्धिपराहतमिति दूषयति-न मध्य इति / पक्षाद्यनेकज्ञानकल्पने गौरवञ्चत्याह-गौरवाचेति / अनन्तरं स्मरामीत्यनुभवाभावाल्लिङ्गज्ञानमपि नास्तीत्याह-ज्ञानान्तरस्येति / अनन्तरभाविनामज्ञानस्येन्द्रियाद्यजन्यत्वात्स्मृतित्वज्ञानमिति शङ्कते-परिशेषादिति / परिशेषमजानतोऽपि प्रतिसन्धानसत्त्वान्मैवमित्याह-न, एतमिति / ज्ञातेपि स्मृतित्वे व्याप्ति निश्चयस्यानियतत्वान्न नियमेनानुमितिरित्याह-अनुभवस्येति / इष्टज्ञानसुखयोः कार्यकारणभावग्रहानुपपत्तिरप्यलौकिकानुभवे मानमिति वक्तुं परमत इष्टज्ञानानुभवो न सम्भवतीत्याह-एवमिति // नन्विष्टज्ञानमेवानुव्यवसायानन्तरं सुखमुत्पादयतीति शङ्कते-ननु सुखादीति।