________________ प्रथमः परिच्छेदः मानत्वनियमाभावे क्वचिदपि निष्कम्पप्रवृत्त्यनुपपत्तेः। विषयस्य वर्तमानतानिश्चयस्य तहेतुत्वात् / स्थूलकालमादाय प्रयोगसाधुत्ववर्णनेऽपि प्रत्यक्षस्य तथा विवक्षानुपपत्तेः। तस्मादनुव्यवसायासम्भवाद्धारान्तः पातिप्रथमाविज्ञानानां विनष्टानामनुष्यवसायायोगान्न कथमपि वेद्यज्ञानवादेऽमिहितानुसन्धानं सङ्गच्छते। अनुमेयं ज्ञानमिति वादे तु नतराम् / अमुव्यवसायाङ्गीकारे संख्यानुसन्धानामुपपत्तिः किश्च नैरन्तर्येण द्वादशनामानि शृण्वतो शादशनामानि कमेणाश्रौषमिति यत्रानुसन्धानं तत्र न मध्येऽनुव्यवसाय: कल्पयितुमपि शक्यते / अनुव्यवसायसामग्रीकालोऽत्पन्ननाम्नोऽनुभवासम्भवेन द्वादशत्वानुसन्धानानुपपत्तेः। ननु बादशनामानुभवानन्तरं द्वादशनामगोधरा स्मृतिर्जाजायते स्मृत्याच तत्कारणमनुभवमनुमाय तद्गोचरानुसन्धानमेवं बुखिधारास्थले नियामकमिति / किञ्च प्रत्यक्षज्ञानकाले विषयसत्त्वनियमादनुव्यवसाये च तदसम्भपानासावङ्गीकार्य इत्याह-किञ्चेिति / प्रत्यक्षज्ञानकाले विषयसत्त्वनियमाभावे बाधकामावान्नोक्तदोष इति शङ्कते-ननु विषयस्येति / बाधकामावोऽसिद्ध इत्याहम प्रत्यक्षेति / यच्चोक्तं स्थूलकालमादाय वर्त्तमानतावभास इति तत्राह-स्थूलकालमिति / विवक्षायाः शब्दधर्मत्वादनुभवे यथावभासं विषयसत्ताया अभ्युपेयत्वा. दित्यर्थः / उक्तानुसन्धानस्यान्यथोपपत्त्यभावमुक्तमुपसंहरति-तस्मादिति / भट्टमते ऽप्यनुसन्धानानुपपत्तिरित्याह-अनुमेयमिति / तन्मते पक्षाधनेकज्ञानव्यवधाने धाराविच्छेदादेः सत्त्वादित्यर्थः॥ एवं मध्येऽनुव्यवसायाङ्गीकारे धाराविच्छेदो दूषणमुक्तमिदानीं मध्ये ऽनुव्यवसायकल्पने संख्यानुसन्धानानुपपत्तेर्न तत्कल्पनमित्याह-किञ्चेति / ____ अयमर्थः। केशवादिद्वादशनामसु नैरन्तर्येण पठ्यमानेषु तव मते आद्यवर्णस्थितिसमये तद्विषयकत्वादिनिर्विकल्पज्ञानं द्वितीयवर्णोत्पत्तिश्च / तत्सविकल्पसमये द्वितीयस्य स्थितिः। तदनुव्यवसायसमये द्वितीयस्य नाशः। तदनन्तरं द्वितीयग्रहणायोगात्तृतीयस्य चतुर्थस्य वा ग्रहो वक्तव्यः। एवमुत्तरत्रापि केषां