________________ ना सटीकाद्वैतदीपिकायाम् पायविषयत्वेन तस्या बलवत्त्वे जाग्रत्यनुव्यवसायमात्रविलोपप्रसङ्गात् / सर्वदा बाह्यज्ञानसामग्रीसम्भवात् / प्रवर्तकबाह्यज्ञान, सामग्री बलवतीति चेन्न। तादृशज्ञानसामग्रयां सत्यामेषेदमहं जानामीत्यनुव्यवसायदर्शनात्।। परस्य न साक्षाज्ञानहेतुता ___ अदृष्टस्य च नियामकत्वे सहकारिवैकन्यात् कदाचिदपि ज्ञानाभावानुभवायोगात् / नियामकं विनापि नियमाङ्गीकारे सहकारिवादविलोपप्रसङ्गाच। किञ्च प्रत्यक्षं हि स्वसमानकालीनं विषयीकरोति घटोऽस्ति जानामीति प्रत्यक्षयोर्विषयस्य वर्तमा. नतावभासनात् / न चानुव्यवसायकाले व्यवसायस्य वर्तमा. बताऽस्ति / ननु विषयस्य प्रत्यक्षनिमित्ततया पूर्वक्षणवतित्वमेवापेक्ष्यते, न तु तत्कालीनत्वमपि, वर्तमानताऽवभासस्तु स्थूलोपाधिमादायापि भवतीति चेत, न प्रत्यक्षविषयस्य तत्काले वर्त इत्याह-अजिज्ञासितस्येति / सामग्रयां सत्यामपि प्रतिबन्धकदशायामनुव्यवसायोपरमात्तदुपरम इत्याशङक्याह-न च बाह्येति / किं बाह्यज्ञानसामग्रीत्वेन प्रतिबन्ध कत्वमुत प्रवर्तकज्ञानसामग्रीत्वेन ? आये आह-बाह्यविषयत्वेनेति / सर्वदेति / त्वगिन्द्रियस्य स्पर्शवद्रव्येण संयोगस्य जाग्रत्यवर्जनीयत्वाच्छरीरव्यापित्वचो मनःसंयुक्तत्वाच्चेत्यर्थः / द्वितीयं शङ्कते -प्रवर्तकेति / इन्द्रियस्येष्टवस्तुसंयोगे सत्यपि तदनुव्यवसायदर्शनान्न तदित्याह-न तादृशेति // नन्वदृष्टस्यापि ज्ञानकारणत्वात्तभावादेव वित्तिधारोपरम इति चेन्न, दृष्टसामग्रीसम्पादनेनैवादृष्टस्य कार्यहेतुत्वादित्यभिप्रेत्य साक्षाद्धेतुत्वे दोषमाहअदृष्टस्येति / सहकारिवैकल्यादिति / सहकारिणोऽदृष्टस्य वैकल्यमभावो यस्मिन्ननुपलम्भे स तथा तस्मादित्यर्थः / अयमर्थः / अभावाधिकरणे तर्कितप्रतियोगिसत्त्वविरोध्यनुपलम्भस्याभावधीहेतुत्वाज्ज्ञानामुपलम्भस्य चात्मनि सत्यपि ज्ञाने तदुपलम्भकादृष्टवैकल्यादप्युपपत्तेरित्यन्यथासिद्धिशङ्कया ततो ज्ञानाभावनिश्चयो न स्यादिति / ननु स्वभावादेव किचिज्ज्ञानं गृह्यते, किश्चिच्च न गृह्यत इति तत्राह