________________ प्रथमः परिच्छेदः एतेन सामान्याकारेण सर्वज्ञानं कदाचिजातमिति तद्गोचरा स्मृतिः, ततो जिज्ञासा ज्ञानमात्रविषया जायते, ततो घटज्ञानमुत्पद्यते। तच जिज्ञासागोचर एवेति द्वितीयक्षण एव तद्विषयानुव्यवसाय इति नान्योन्याश्रयादिरिति प्रत्युक्तम् / जिज्ञासां विना तस्यैवानुपपत्तेः / ज्ञान जिज्ञासानन्तरमजिज्ञासितबाह्यज्ञानानुत्पत्तौ तत्र जानामीत्यनुव्यवसायानुपपत्तश्च / ननु वयं नियमं न ब्रूमः कचिजिज्ञासितं गृह्यते, क्वचिद्विपरीतम्, क्वचिच्च नैव गृह्यत इत्यभ्युपगम्यत इति चेन्न, त्वदभ्युपगमस्य व्यवस्थापकाभावेन निर्मूलत्वात् / अजिज्ञासितस्यापि ग्रहणे कचित्तद्विरहः कथमिति वर्ण्यताम् / न च बाह्यज्ञानसामग्रीप्रतिबन्धात् कदाचिदित्तिधाराविरम इति वाच्यम्, परमादनुव्यवसायोपरम इति शङ्कते-नन्विति / ज्ञानबुभुत्साया ज्ञानविषयधर्मिज्ञानादिसाध्यत्वात्तस्य बुभुत्साधीनत्वे परस्पराश्रयादिकं स्यादिति दूषयतिन बुभुत्साया इति / बुमुत्सोत्पत्तिसमयेऽनुव्यवसायस्य नाशान्न तयापि तदनुव्यवसाय इत्याह-बुभुत्साहेत्विति / सत्यां बुभुत्सायां तद्विषयज्ञानोदयान्नान्यस्यावकाश * इत्याह- उत्पन्नायामिति। बुभुत्साज्ञानसामग्रथा दुर्बलत्वान तज्ज्ञानमिति चोदयति-त्रुभुत्सेति / एवं सति वेङ्कटाधिपतिलीलाविग्रहस्यैव बुभुत्सितत्वात्तद्धारासमये तदनुव्यवसायायोग इत्याह-न तथा सतीति / दुःखादिज्ञानस्याबुभुत्सितस्यापि गृह्यमाणत्वान्न तस्याः ज्ञानग्रहणकारणतापीत्याह-अबुभुत्सितेति / / जिज्ञासितज्ञानात्पूर्वमेव धर्मिज्ञानजिज्ञासयोरुत्पत्तेर्न ताभ्यां व्यवधानमितीयमपि कुकल्पनाऽनुपपन्नेत्याह-एतेनेति / तस्यैवेति / ज्ञानमात्रविषयप्रथमज्ञानस्येत्यर्थः। किञ्चोक्तप्रकारेण ज्ञानमात्रजिज्ञासाजनकस्मरणज्ञानस्यापि तजिज्ञासाविषयत्वात् स्मरणज्ञानसामग्रथा जिज्ञासाघटिततया बलवत्त्वात् तज्ज्ञानमेव स्यान्नाजिज्ञासितबाह्यविषयज्ञानम्, तथा चोक्तानुव्यवसायायोग इत्याह-ज्ञानजिज्ञासेति / जिज्ञासायाः सर्वत्राकारणत्वान्नान्योन्याश्रयादिरिति चोदयति-ननु वयमिति / त्वदभ्युपगमस्य नियामकाभावाद्धेयतेत्याह--न त्वदभ्युपगमस्येति / अनियमपक्षेऽप्यनुव्यवसायानुपरम