________________ सटीकाद्वैतदीपिकायाम् अनुव्यवसाये ज्ञानत्वस्य स्वरूपतो भानेऽपि दोषः न च ज्ञानत्वांशेऽनुव्यवसायो निविकल्पक एव, न हि तदैवं भायात् मयिज्ञानमिति / तत्र हि ज्ञानत्वं प्रकारस्ततो विलपज्ञानत्वप्रकारकज्ञानादर्शनात् / निर्विकल्पकत्वसविकल्पकत्वयोविरुद्धयोरेकत्र वृत्तित्वानुपपत्तेश्च। समवायिन इव असमवायिः नोऽप्यविनश्यदवस्थस्यैव जनकत्वात्। एवमपि संयोगस्थितिक्षणोत्पन्नव्यवसायस्याननव्यवसायप्रसङ्गात। संयोगस्य स्वरूपविशेषाभावे किश्चिद्बाह्यज्ञानजननयोग्यं किश्चिन्नेत्यस्यैव दुर्वचत्वात्। ननु बुभुत्सितं ज्ञानं गृह्यते नाबुभुत्सितमिति चेन्न / बुभुत्साया अपि बुभुत्सितसामान्यज्ञानाधोनतयाऽन्योन्याश्रयादिप्रसङ्गात्। बुभुत्साहेतुधमिज्ञानेन बुभुत्सितज्ञानस्य विनष्टत्वेन तदनुव्यवसायायोगात्। उत्सन्नायां बुभुत्सायां तद्विषयज्ञानसामग्र याः सत्त्वेन बुभुत्सितज्ञानानुपपत्तेः / बुभुन्साघटितज्ञानसामग्री बलवतीति चेन्न / तथासत्युदाहृतस्थले तद्घटितबाह्यज्ञानसामग्रयाः सत्त्वेनाननुव्यवसायप्रसङ्गात् / अबुभुत्सितज्ञानग्रहणाच॥ विशेषणतया भानात्तज्ज्ञानमपि वक्तव्यमन्यथाऽनेकविशेषणवति वस्तुन्येकविशेषणज्ञाने तावद्विशेषणविशिष्टप्रत्ययापातादित्याह--विशिष्टज्ञानस्येति / ___ नन्वनुव्यवसाये ज्ञानत्वं स्वरूपेण भासते न तु विशेषणतया, ततस्तज्ज्ञानमनपेक्षितमित्याशङ्कय तथात्वे मयि घटविषयं किञ्चिदिति प्रतीत्यापात इत्याहन चेति / न च ज्ञानत्वांश इति / निर्विकल्पकत्वस्य साक्षात्वव्याप्यजातित्वादन्याप्यवृत्तित्वापात इत्याह --निर्विकल्पकत्वेति / तन्तुवत्तन्तुसंयोगस्याप्यविनश्यदवस्थस्यैव जनकत्वाद्विनश्यदवस्थसंयोगाद्वयवसायोत्पत्तिरपि न सम्भवतीत्याहसमवायिन इवेति / द्रव्यासमवायिन एवायं नियम इत्याशङ्कयाङ्गीकारेण धारायां द्वितीयादिज्ञानाननुव्यवसायप्रसङ्ग इत्यभिप्रेत्याह-एवमपीति / योग्यतावच्छेदकानिरूपाणादपि नायमुपाधिरित्याह। संयोगस्येति / बुभुत्सो