________________ प्रथमः परिच्छेदः संयोगाविशेषस्यानुव्यवसायहेतुत्वखण्डनम् ननुसंयोगविशेषोऽनुव्यवसायहेतुरिति तद्विच्छेदादेव तद्विगे च्छेद इति चेत्, किं संयोगे विशेषो जातिरुत वाह्यज्ञानजननायोग्यत्वमुपाधिः / नाद्यः, साह्यन्यतरकर्मप्रयोज्या वाच्या, आत्ममनः संयोगेऽन्यस्या असम्भवात् / सा च सर्वात्ममनः संयोगसाधारण्येवेति न तद्विरहाद्विज्ञानविरहः / नापि तवयाप्यजातिविशेषः। तत्प्रयोजकाभावान्मानाभावाच / द्वितीयेऽनुव्यवसायमात्रोच्छेदप्रसङ्गः। घटादिज्ञानोत्पादकसंयोगान्यसंयोगजनिपूर्वमेव घटादिज्ञानस्य विनष्टत्वात् / न च तावत्पर्यन्तं ज्ञानं स्थायि / धारास्थलेऽपि ज्ञानैकत्वापत्तेः। न च विनश्यदवस्थसंयोगनिष्पन्नव्यवसायस्य स्वसत्ताक्षणोत्पन्नसंयोगादनुव्यवसाय इति वाच्यम् / विशेषणज्ञानकाले तस्यापि नष्टत्वात् / न चानुव्यवसायस्य न विशेषणज्ञानजन्यत्वमिति वाच्यम् / अन्यस्यापि तदभावप्रसङ्गात्। न चानुव्यवसाये विषयो विशेषणं तज्ज्ञानं च व्यवसाय एवेति वाच्यम् / विशिष्टज्ञानस्य स्वविषयीभूतयावविशेषणज्ञानजन्यत्वाभावेऽन्यत्रापि तत्प्रसङ्गात् // बुद्धेरभावाच्चेति हेतुमाह तत्प्रयोजकेति। विशेषस्योपाधित्वपक्षे वाह्यज्ञानजनकसंयोगादनुव्यवसायानुपपत्तस्तदर्थ मनसि क्रियादिपूर्व संयोगान्तरमारम्भणीयं, ततः पूर्वव्यवसायनाशादनुव्यवसायायोग इत्याह-द्वितीय इति / ज्ञानस्य चतुः पञ्चक्षणावस्थायित्वानोक्तदोष इत्याशङ्कयापसिद्धान्ताद्धाराया एकज्ञानत्वापत्तेश्च नेति दूषयति न च तावदिति / ननु व्यवसायस्तजनकसंयोगनाशश्चैकक्षण एवोत्पद्येते. व्यवसायस्थितिक्षणे ऽनुव्यवसायहेतुसंयोगान्तरमुत्पद्यते, व्यवसायस्य तृतीयक्षण एवानुव्ययसाय इति नोक्तदोष इत्याशय ज्ञानत्वविषयनिर्विकल्पकोत्पत्तिसमये तस्य नष्टत्वान्नानुव्यवसाय इत्याहन च विनश्यदिति / विशेषणज्ञास्यानपेक्षितत्वान्न तेन व्यवधानमित्यत आह-- न चेति / अन्यस्येति / व्यवसायस्येत्यर्थः। व्यवसायस्यैव विशेषणज्ञानत्वान्न तन्निर्विकल्पापेक्षेत्यत आह-न चानुव्यसाय इति / अनुव्यवसाये ज्ञानत्वस्यापि