________________ सटीकाद्वैतदीपिकायाम् नस्य ज्ञानस्यावश्यवेद्यत्वाभावेन मध्येऽनुव्यवसायकल्पना. योगाच। जिज्ञासितश्रीवेङ्कटाचलनाय रकमनीय लीलाविग्रहबुद्धिधारासामग्रयां सत्यामपि मानसज्ञानकल्पनायां सर्वत्र ननु यज्ज्ञानमुद्भूतं तदेव ग्राह्यमनुद्भूतं त्वयोग्यत्वादग्राह्यमिति ज्ञानधाराविच्छेद इति चेन्न। ज्ञानानुभूतत्वे प्रमाणाभावादनुभूतत्वस्य मूर्तविशेषगुणमात्रवृत्तित्वाच। एकव्यक्तगुंगत्वावान्तरजात्यैकजातिमदुद्भूतानुभूतानाश्रयत्वनियमेनात्मन उभयविधज्ञानानुपपत्तेश्च / न च निर्विकल्पकमेवानुभूतं ज्ञानं, तर्हि तद्विषयविशिष्टज्ञानमावश्यक सामग्रीसत्वात् // वाच्यं, ततश्च धाराविच्छेदो ऽनुव्यवसायानपरमश्च स्यादित्याह-जिज्ञासितेति / अनुव्यवसायायोग्यज्ञानोत्पत्ती अनुव्यवसायोपरम इति शङ्कते-ननु यज्ज्ञानमिति / किमनुद्भूतत्वमुद्भूतत्वाभावो जातिविशेषो वा निर्विकल्पकत्वं वा। आद्य उद्भूतत्वस्य मूर्तविशेषगुणमात्रनियततया तदभावस्य शब्दादिसाधारणतया प्रत्यक्षत्वाप्रतिबन्धकत्वात् / न द्वितीयः सविकल्पकज्ञानमात्रस्य प्रत्यक्षत्वयोग्यतया तादृशजातिसत्त्वे मानाभावादित्याह-न ज्ञानेति / अनु द्भूतत्वस्य जातित्वेऽपि रूपादिनिष्ठमेवेत्याह-अनुभूतत्वस्येति / किञ्च यस्मिन्नात्मन्यनुद्भूतं ज्ञानं वत्तते तस्मिन्नुभूतज्ञानसमवायो न स्यादित्याहएकव्यक्तरिति / प्रदीपप्रभादेर्गुणत्वेन सजातीयोद्भूतानुद्भूतगुणद्वयाश्रयत्वं दृष्टं तथावृत्त्यर्थ-गुणत्वावान्तरेति / न चैकस्मिन् परमाणौ तादृशगुणद्वयमस्तीति वाच्यम् / परमाणूनामेवासत्त्वात् सत्त्वे वा तद्गुणेष्वनुद्भूतत्वे मानाभावात्, तदप्रत्यक्षत्वस्यान्यथाऽपि सम्भवादिति भावः। तृतीयं दूषयतिन चेति / ज्ञानविषयनिर्विकल्पकाङ्गीकारे ज्ञानविषयसविकल्पकमावश्यक तत्सामग्रीसत्त्वादन्यथा निर्विकल्पकस्याप्यभावापातादित्याह-तीति / असमवायिकारणोपरमादनुव्यवसायोपरम इति शङ्कते-ननु सयोगेति / विशे। एव दुर्निरूप इति दूषयति-किमिति / आद्य ऽपि सा कि संयोगत्वस्य साक्षाद्वयाप्यजातिः, व्याप्यव्याप्या वा। आद्य आह-सा हीति / अन्यस्या इति / उभयकर्मादिप्रयोज्याया इत्यर्थः। ततः किमित्यत आह--सा चेति / द्वितीयं पक्षं दूषयति--नापि तद्वयाप्येति। व्यञ्जकाभावाजातिसाधकानुगत