________________ प्रथमः परिच्छेदः तत्कथमहङ्कारात्मकादे सङ्गच्छताम् / धारामध्यपतिततत्तदिज्ञानानां तत्तत्कालीनात्मनश्च पूर्वकालीनानुभवागोचरत्वेनेदानोमनुसन्धानानुपपत्तेः / न च सामान्यप्रत्यासत्या तदनुभवः। तदाश्रयव्यक्तरसन्त्रिकर्षात् / न च स्मरणानव्यवसाय एव तदाश्रयोऽस्तोति वाच्यम् / अद्राक्षमित्यादौ तदभावात् / अतिप्रसङ्गात् सामान्यप्रत्यासत्तेनिरसिध्यमाणत्वात् / इदानीमसतां च तेषामनुव्यवसायायोगाच्च // ननु ततज्ज्ञानानन्तरमेवोत्पत्रानुव्यवसायात्मज्ञाना संस्काराधानादिदानीमनुसन्धानं स्यादिति चेत्र / तथासति विजातीयज्ञानव्यवधानेन ध्यानत्वादेस्नुपपतेः। वेबज्ञानवाद उत्प चाक्षुषस्य वा वाह्यविषयस्य धारावाहिकज्ञानस्य तत्कालीनाहमर्थस्य चानुसन्धानं दृश्यते, एतच्च तत्तत्कालीनस्वसमानविषयानुभवमन्तरेणानुपपन्नं, तदनुभवश्च वेद्यज्ञानवादे ऽनुपपन्नस्तस्माद्धाराकालीनः स्वतन्त्रो ऽनुभव एषितव्य इत्यर्थः / ननु धारान्तिमज्ञानगतघटज्ञानत्वसामान्यप्रत्यासत्तिजन्यमिदं ज्ञ निं तावज्ज्ञानगोचरमनुव्यवसायरूप न तदनुसन्धानमित्याशङ्कथ घटिकादिव्यवधानेप्यस्यदर्शनानायमनुभव इत्याह- न च सामान्येति / समयान्तरे घटस्मरणे सति तदनुव्यवसायो जायते। तत्र घटानुभवत्वस्य सत्त्वात्तत्प्रत्यासत्त्या धारानुभव इति तत्राह-न च स्मरणेति / अद्राक्षमिति स्मरणानुब्यवसाये चाक्षुषत्वाभावाद्धारागतचाक्षुषत्वानुसन्धानं न स्यादित्यर्थः। किञ्च जन्मान्तरीयघटज्ञानस्यापि प्रत्यासत्त्याश्रयत्वात्तस्याप्यनुसन्धानप्रसङ्गः। न चेष्टापत्तिः / एतावन्तं कालमिति विशेषणायोगादित्यभिप्रेत्याह-अतिप्रसङ्गादिति / सामान्यस्य प्रत्यासत्तित्वमपि नास्तीत्याह-सामान्येति / असनिकृष्टानुव्यवसायं निराकरोति-इदानीमिति / समयान्तरे ऽनुसम्यानस्य चोद्यपरिहारौ ननु तत्तज्ज्ञानानां तत्तदनन्तरभाविमानसज्ञानविषयत्वात्समयान्तरे ऽनुसन्धानमिति चोदयति -नन्विति / धारानुपपत्त्या दूषयति-नेति / ज्ञायमानसत्ताकत्वनियमाभावान्मध्ये ऽनुव्यवसायनियमे प्रमाणभाव इत्याह-उत्पन्नस्येति / किञ्च जिज्ञासितबाह्यज्ञानसामग्रीस्थले मध्ये आन्तरज्ञानकल्पनं आन्तरज्ञानसामग्रीत्वेनैव बलवत्त्वं