________________ सटीकाद्वैतदीपिकायाम अनुकूलतर्कयुक्तत्वात् / अहङ्कारातिरिक्तात्मनः सिद्धयसिद्धिपराहतत्वात्तस्य // अहङ्कारातिरिक्तास्मसिद्धिः अत एव प्रतिपक्षानुमानमध्यप्रयोजकम् / अस्मन्मते सपक्षे ब्रह्मणि हेतोरभावनासाधारण्यमसिडिवा / न च द्वितीये साध्ये जीवान्तरेणेश्वरेण वार्थान्तरता। तद्भदनिराकरणार्थस्वादेतस्य। अहमनुभवे प्रकाशमानः स्वव्यतिरिक्तद्रष्टुक इति वा साध्यम्। अपि चास्ति तावन्नीलोत्पलपलाशश्यामलमरविन्दलोचनमिन्दिरारमणमनवरतमनुचिन्तयतामाप्रहरं घटादिज्ञानधारावतामपि तावत्कालीनचित्तवृत्तिगोचरं तावत्कालीनात्मगोचरश्चानुसन्धानमेतावन्तं कालमिदमनुभवन्नेवासमिति / न च विशेषणवैय्यर्थ्यम् / अहङ्कारस्यात्माभेदे तत्प्रकाशदशायामप्रकाशमानस्वस्यायोगादिति हेतोरप्रयोजकत्व निरासार्थत्वादिति पराभिमतात्मत्वनिषेधान्न निषेध्याप्रसिद्धिर्दोषायेत्युक्तमिति / अहङ्कारस्याननुभवे कथं परामर्शविषयत्वप्रतीतिरित्याशङ्कय विषयात्माभेदारोपादित्याह-सुखमहमति / अहङ्कारश्चासौ परामर्शस्याश्रयोऽहङ्काराश्रयः। कारणाभावस्येति / पूर्वानुभवाभावस्येत्यर्थः। ननु त्वदभिमत आत्मा स्वव्यतिरिक्तद्रष्टको वस्तुत्वादित्याभाससमता भेदानुमानस्येत्याशङ्कय वैषम्यमाह-न चासति / आभासानुमानस्य धर्मिग्राहकबाध आश्रयासिद्धिर्वा दोषः, स चात्र नास्तीत्याह-अहङ्कारे त / अहङ्कार आत्मा ज्ञानाश्रयत्वादिति यदुक्तं, तदप्यप्रयोजकं, भेदानुमानस्यानुकूलतकंयुक्तत्वादित्याह-अत एवेति / / किश्च ज्ञानपदेन जन्यं ज्ञानं विवक्षितमुताजन्यम् / आयेऽसाधाणता, द्वितीये पक्षेऽसिद्धिरित्यभिप्रेत्याह-अस्मन्मत इति / स्वव्यतिरिक्तद्रष्टक इति साध्यमात्मनानात्वेऽप्युपपन्नमित्याशङ्कथ लाघवतर्कविरोधान्मैवमित्याह-- च द्वितीय इति। देवदत्तो ऽहमनुभवविषयस्तस्यैवाहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट्रक इति विवक्षितत्वाद्वा नार्थान्तरतेत्याह / अहमनुभव इति / एवमहङ्कारातिरिक्तमात्मानं प्रसाध्य तस्यावस्थात्रयसाक्षिचैतन्यात्मकतां वक्तुं ज्ञानधारानुसन्धानानुपपत्त्या स्वतन्त्रज्ञानं निरूपयति / अपि चेति-मानसस्य