________________ प्रथमः परिच्छेदः ज्ञानस्य वर्णध्वनिविषयप्रत्यभिज्ञानवजातिविषयत्वात् / व्यक्तिविषयत्वे बाधकस्योक्तत्वात् / न चैवमधिकरणविरोधः। तस्य सूक्ष्मरूपेण तदा तदषस्थानविषयत्वात् / अन्यथोदाहृतश्रुत्या सुषुप्तिकाले सकले विलीन इति कार्यमात्रविलयश्रुत्या च विरोधप्रसङ्गात् / अहं निदुःखः स्यामिति प्रवृत्तिरप्यहमनुभवे प्रकाशमानस्य चिदात्मनोऽध्यासाद् दुःखाश्रयस्य दुःखाभावार्थमिति न विरुध्यते। किं च दुःखाभावस्यापि सुखशेषत्वादहङ्कारे सुषुप्तौ दुःखाभावजन्यसुखासम्भवान्नित्ये धर्मरूपे तस्मिन्मानाभावाच / स्वरूपसुखाभिव्यक्त्यर्थमेव दुःखाभावकामनया सुषुप्तौ प्रवृत्तिः, सा चाहकारात्मवादे नोपपद्यते। न चानुभवस्मरणयोर्वैयधिकरण्यं, कृतहानाकृताभ्यागमो ग। सुषुप्तावपि सूक्ष्मरूपान्त:करणावच्छिन्नचैतन्यस्य सत्त्वात्, तावतैवातिप्रसङ्गविरहात् / सर्वज्ञेश्वरस्यासङ्कीर्णफलदातृत्वोपपत्तेश्च // यथा वैशेषिकादिमते स एवायं गकार इति प्रत्यभिज्ञा जातिविषया, यथावा भट्टमते ध्वनिविषया, तथाऽसावपीत्यर्थः / व्यक्तिविषयत्वे सुषुप्तौ लयश्रवणाद्यनुपपत्तिरित्याह-व्यक्तीति / नन "तदापीतेः संसारख्यपदेशात्" इत्यधिकरणे मोक्षपर्यन्तं लिङ्गदेहावस्थानोक्तेः कथं स्वापे लय इति तत्राह-न चैवमिति / श्रुतिसूत्रयोर्विरोधे श्रुत्यनुरोधेन सूत्र नेयमित्यभिप्रायेणाह- अन्यथेति / यदुक्तं सुषुप्तावहमर्थस्य नाशे तदुःखाभावार्थप्रवृत्त्यनपपत्तिरिति तत्राहअहं निर्दुःख इति / ननु चिदात्मनो दुःखानाश्रयत्वात्तस्य दुःखाभावो नार्थनीय इत्याशय दुःख्यहंकारतादात्म्यारोपाद्दुःखप्रसक्तस्तदभावप्रार्थनेत्यभिप्रेत्याहअध्यासादिति / अपि च दुःखेन विना सुखी स्यामिति कामनादर्शनात् सुखशेषतयैव दुःखाभावे प्रवृत्तिः, सा च त्वन्मत एवानपपन्नेत्याह-किं चेति / यच्चोक्तं निश्यहंकारनाशे स्मर्तृत्वाद्यनुपपत्तिरिति तत्तदापि सूक्ष्मरूपाङ्गीकारानिरस्तमित्याह --न चानुभवेति / ननु सूक्ष्माद्भिन्नस्य स्थूलस्य तदनुभूतार्थस्मतृत्वेऽतिप्रसङ्ग इत्यत आह-तावतैवति / स्थूलसूक्ष्माकारभेदेऽपि धम्यक्यान्नातिप्रसङ्ग इत्यर्थः / स्थूलरूपस्य नाशात्तत्कृतकर्मनाशेऽपि तत्फलं तदुपहित एक जीवे कालान्तरेऽपि सेवादिफलवदीश्वरदातृकं नियतं भविष्यतीत्याह-सवज्ञेति / '