________________ सटोकाद्वैतदीपिकायाम् सूक्ष्मरूपेण स्वापेऽवस्थानोपपत्तिः सूक्ष्मता च विशिष्य निर्वतमशक्याप्यसत उत्पश्यनुपपस्या "असहा इदमग्र आसीत्" इति श्रुत्या च कार्यमात्रस्यावश्याभ्युपेया। अनभिव्यक्तरूपस्यैवासच्छब्दार्थत्वात् / अन्यथा आसोदिति विरोधात् / अत एवानिर्वचनीयं विश्वमिति तत्वविदां स्थितिः॥ मविद्यावच्छिन्नस्य परामर्श इति पक्षः परामोऽविद्यावच्छिन्नस्यैवेति केचित्, अहमिहैवास्मीत्यनुभवात् परिच्छिन्नत्वस्यापि नासिद्धिः। न चैतस्याप्रयोजकत्वम्। परिच्छिन्नस्यात्मशब्दार्थत्वव्याघातात् / न चात्मत्वमेव तदर्थः / आत्मनानात्वसिद्धेः पूर्व तजातेरसिद्धस्तस्य चाचाप्यसिद्धत्वात् / नानात्मकल्पने गौरवाच // नन किमिदं सूक्ष्मत्वं? कारणात्मतापत्तिरिति चेत्, कोऽर्थः ? किं कारणमेव वर्तते कार्यमपि ? आद्ये नान्तःकरणसत्त्वं, द्वितीये न जायदवस्थातो विशेष इति तत्राह-सूक्ष्मता चेति / सूक्ष्मताया अनिर्वचनीयत्वेन भेदाभेदाभ्यां दुर्निरूपत्वमनकूलमेव / न च तत्र मानाभावः / सतोऽसतो वोत्पत्त्यनुपपत्त्याअसद्वा इदमिति श्रुत्या च तदवगमादित्यर्थः। नन्वसदितिकार्यस्यासत्त्वमेवोच्यते न तूक्तसक्ष्मरूपं तत्राह–अनभिव्यक्तेति / तुच्छत्वपक्षे बाधकमाह-अन्यथेति / अग्र आसीदिति पूर्वकालसम्बन्ध इदमसदित्यत्य कार्यस्यासदैक्यं चानिर्वचनीयसक्ष्मरूपमन्तरेणानुपपन्नमित्यर्थः। दुर्निरूपत्वादेव कार्यरूपमप्यनिर्वचनीयमित्याहअत एवेति / एवमहंकारावच्छिन्नस्यात्मनः परामर्शाश्रयत्वमिति मते सुषुप्तिकालिकानुभवसामानाधिकरण्यं परामर्शस्योपपादितम् / इदानीमविद्यावच्छिन्नस्येति मते तस्यावस्थात्रयेऽप्यनपायान्न चोद्यावकाश इत्याह परामर्श इति / मितत्वहेतोरसिद्धिं परिहरति-अहमि हेति / न च देहपरिच्छेदविषयोऽयमनुभव इति वाच्यम् / अहमिहे वास्मि जानान इति परिच्छिन्नस्य ज्ञानाश्रयत्वानुभवादिति भावः। आत्मनोऽणुत्वात् परिच्छिन्नत्वमात्मत्वेऽप्युपपद्यत