________________ 48 . . सटीकाद्वैतदीपिकायाम् प्रतियोगिकत्वात्तस्य। न च जीवस्य स्वरूपेण विलयोऽस्ति / प्रत्यभिज्ञानविरोधात् / कृतहानाकृताभ्यागमप्रसङ्गात् / सत्सम्पत्तिविरोधाच / उपाधिलये तु जीवस्य तदभेदाभिमानिनोऽपि लयो भवति / सत्सम्पत्तिवाक्यानुसारेण पुरुषलयवाक्यस्य तथैवार्थवर्णनात् / उपाधिश्वाहमनुभवगोचर एवेति तस्य विलयः / अन्यथा जाग्रतीव सुषुप्तावस्यहमाकारा धीः स्यात् / न च साऽस्ति / अन्यथा "महमित्यभिमन्यमान एव अस्वा. प्सामे"ति तदभिमानपरामर्शप्रसङ्गात् / तस्यानुभवनियमात् // जाग्रत्कालिक (रामर्शस्योपपत्तिः जाग्रति तदनुभवतया निर्णीतचैतन्यस्य तदापि सत्त्वात्, सुषुप्तौ चैतन्याभावे सुखादिपरामर्शस्याप्यभावापातात् / न चैवं प्रत्यभिज्ञाविरोधः। अहमनुभवे प्रकाशमानचैतन्यस्य तविषयस्यावस्थात्रयेऽप्यन पायात्। उपाधावहङ्कारे प्रत्यभिकथमहङ्कारस्य विलय इत्यत आह--न च जोवस्येति / प्रत्यभिज्ञानेति / योऽहं सुप्तः सोऽहं जागीत्यादिविरोधादित्यर्थः / किञ्च जीवस्य स्वरूपनाशे "सता सोम्य तदा सम्पन्नो भवति" इति श्रुतिविरोध इत्याह--सत्सम्पत्तीति / कथं तर्हि पुरुषलयाभिधानं तत्राह--उपाधिलय इति / यथा कलाक्षय एव चन्द्रक्षयशास्त्रार्थ एवं पुरुपलयशास्त्रस्यापि तदुपाधिलय एवार्थः। ननु चन्द्रस्यामावास्यायां सूर्यसङ्गत्यभिधानात् क्षयवचनं कलाविषयमित्याशंक्य तुल्य मुत्तरमित्याह-सत्सम्पत्तीति / वनादिति / वर्णनस्य युक्तत्वादित्यर्थः। तथापि तटस्थस्य कस्य चिदुपाधेर्लयः किं न स्यादित्याशंक्य तटस्थोपाधिलयेऽप्युपहिते लयबुद्धथदर्शनाज्जीवतादात्म्यापन्न एवोपाधिर्वक्तव्यः, स चाहंकार एवेत्याहउपाधिश्चेति / स्थूलदेहस्य जाग्रत्स्वप्नयोरेकस्याभावान्न स उपाधिरित्याह--एवेति / अहंकारलयानङ्गीकारे बाधकमाह-- अन्यथेति / सुषुप्तावप्यहमनुभवाङ्गीकारे तस्यापि परामर्शः स्यादित्याह--अन्यथाहमित्यभिमन्यमान इति / अनुभवन्नवेत्यर्थः / / नन्वनुभवस्याजातत्वान्न तत्परामर्श इत्याशंक्य तस्यानुभवनियमादिति तदुपपादयति--जाग्रतीति / वैशेषिकादिमतानसारिणं प्रत्याह-सुषुप्ताविति / सुषुप्तावहंकारनाशे तदुपहितस्य सोऽहमिति प्रत्यभिज्ञाविरोध इत्यत आह--न चैव मिति / तद्विषयस्य / प्रत्यभिज्ञाविषयस्य / तमुहंकारांशे निर्विषयः स्यादिति तत्राह--उपाधाविति /