________________ प्रथमः परिच्छेदः महङ्कारस्य हश्यत्वम् किं च मामहं जानामीति ज्ञानविषयत्वमहङ्कारस्यानुभूयते / तच न तावत्स्वसमवेतजन्यज्ञानविषयत्वम् / निरवयवात्मनि संयोगाभावेन ज्ञानसामग्रयभावात् / नाप्यहङ्कारधर्मो नित्यं ज्ञानमस्ति। आत्मातिरिक्तनित्यज्ञाने प्रमाणाभावात् / न च विषयस्य स्वप्रकाशत्वं सम्भवति / स्वविषयत्वं स्वप्रकाशत्वमित्यस्य निरसिष्यमाणत्वात् / अत एव न वित्तीयहेत्वसिद्धिः / तथा च हेतूच्छित्तिरपि षाधिका // उक्तानुमाने एवान्यहेतुनिरूपणम् "किं चाहमिति बोधस्य विषयो न स्वबोधकः / विनाशप्रतियोगित्वान्मितत्वाच घटादिवत् // " न चासिद्धिः "स्वमपीतो भवति" इति श्रुत्या सुष्टुप्तौ तस्य लयश्रवणात् / अपिपूर्वस्येतेर्लयार्थत्वात् / न च ज्ञानस्यैव लया। “यत्रैतत्पुरुषः स्वपिति नाम" इति प्रक्रान्तपुरुष हेतुच्छित्तिरपि विपक्षे बाधकस्तर्क इति वक्तुं प्रथममहंकारस्य दृश्यत्वमनुभवसिद्धमित्याह--किं चेति / एतच्चाहङ्कारस्य दृश्यत्वं मानसप्रत्यक्षविषयत्वेन, उत, स्वसमवेतनित्यज्ञानविषयत्वेन, किं वाऽहकारस्य स्वप्रकाशत्वेनेति विकल्प्य क्रमेण दूषयतितच्च न तावदित्यादिना / निरव पवेति / संयोगस्य प्रदेशवृत्तित्वान्निरवयवात्ममनसोस्तदभावादिति वक्ष्यमाणन्यायेनेत्यर्थः। दृश्यत्वादेव स्वप्रकाशत्वानधिकरणत्वादिति हेतुः सिद्ध इत्याह-अत एवेति // उक्तसाध्ये एव पुनरपि हेतुद्वयमाह श्लोकेन- किं चेति / मितत्वात्परिमितत्वादित्यर्थः / अहकारस्य नित्यतया अयं हेतुरसिद्ध इत्याशक्याह -न चासिद्धिरिति / ननु स्वमपीतो भवतीति स्वरूपप्राप्तिरेवोच्यते न तु लय इति तत्राह-अपि पूर्वस्येति / एतेः, इणगताविति धातोः। “यदा वा अग्निरुद्वायति वायुमेवाप्येति" इत्यादिषु लयार्थत्वदर्शनादित्यर्थः / ननु सुषुप्तौ विज्ञानस्यैव लयो न तु कर्त्तरित्याशङ्क्याह-न च ज्ञानस्यैवेति / एवमपि