________________ सटोकाद्वैतदीपिकायाम् ममात्मा दुःखी तवात्मा सुखोत्यन्योयं व्यावृत्ततयाऽनुभूयमानस्यानीश्वरत्वाच // विचारफलम् तस्मात्प्रत्यक्षत एव दुःखाद्याश्रयादात्मनोभेदानुभवात् तवभेदानुभव: कल्पिताभेदविषय इत्यनुमानं न बाधते। अनुमानमप्युक्तयुक्तिसहकृतं गगन नीलिमप्रत्यक्षस्येव दुःखायाश्रयात्माभेदप्रत्यक्षषाधकम् / अत एवाहकारस्यानात्मत्वेऽप्यहं मुक्तः स्यामिति प्रवृत्तिन विरुध्यते। अहमनुभवे प्रकाशमानस्य चिदात्मनो मुक्त्यर्थप्रवृत्त्युपपत्तेः / दुःखाद्या. प्रयाहवारस्यैवात्मत्वे निरतिशयसुखार्थिनो मुमुक्षोः प्रवृत्यसम्भवः। दुःखाभावस्यापुरुषार्थत्वात् / आत्मातिरिक्तनित्यमुखे प्रमाणाभावात् // धर्मिणोऽनुपहिताहंकाररूपत्वे तस्य दुःखित्वानुभवो विरुध्येतेत्याह---ममात्मेति / भेदधर्मिणि दुःखानुभवादेवेश्वरविषयत्वेन प्रामाण्यं दुर्घटमित्याह-- अत एवेति / भेदधर्मिणो नानात्वादीश्वरस्यैकत्वान्न तद्विषयोऽयमनुभव इत्याह-- ममात्मेति // ___एवं भेदप्रत्यक्षेण दुर्बलाभेदानुभवस्य बाधितत्वेन भ्रमत्वात्प्रकृतानमानस्य बाधितत्वेन भ्रमत्वात्प्रकृतानुमानस्य साम्राज्यमित्याह--तस्मादिति / किं च तर्कोपोद्वलितस्यानुमानस्य प्रत्यक्षबाधकत्वं गगननीरूपत्वानुमाने दृष्टं, प्रकृतानुमानस्यापि लाघवादितर्कानुगृहीततया प्रबलत्वेनात्माभेदप्रत्यक्षबाधकत्वमित्याह-अनुमानमपीति / यदुक्तमहमथस्यानात्मत्वे तन्मुक्त्यर्थप्रवृत्त्यनुपपत्तिरिति तदप्यहमर्थस्य द्विरूपाभिधानादेव निरस्तमित्याह-अत एवेति / प्रत्युत तव मत एव मुमुक्षुप्रवृत्त्यनुपपत्तिः। निरतिशयसुखस्य मुमुक्ष्वभिलषितत्वात्, दुःखाद्याश्रयाहकारे तदयोगादित्याह -दुःखाद्याश्रयेति / ननु दुःखाभावार्थमेव प्रवृत्तिः किन्न स्यादिति तत्राह-दुःखाभावस्येति / दुःखस्य सुखाभिव्यक्तिविरोधित्वेन तदभावः सुखाभिव्यक्तिशेषतया कचिदिष्यते इतरथोभयोरपि पुरुषार्थत्वे गौरवादित्यर्थः। तहिङ्कारधर्मनित्यसुखाभिव्यक्तिरेव मुक्तिरिति भट्टमतमाशङ्क्याह-आत्मातिरिक्तेति / एतच्चानन्दवादे निपुणतरमुपपादयिष्यते / /