________________ प्रथमः परिच्छेदः न चैवं सम्पिण्डितोभयस्यैव ममताधिकरणत्वात्कथमेकदेशभेद-प्रतीतिरषाधिता स्यादिति वाच्यम् / सामान्यतो दृष्टानुमाने वस्तुतोऽबाधितविषयस्येव सामान्येन सामान्याभावाभाववादे विशेषा[भावकूट] भेदस्येव सामान्येन ममेत्यनेन रूपेण तदधिकरणैकदेशभेदस्यैव तद्बुद्धिविषयत्वात्। विनिगमनाभावेनानयोः प्रतीत्योर्गत्यन्तराभावात् / अत एवाहमर्थस्य विरूपत्वमाहुः / निपुणतरश्चैतदुपपादयिष्यते / न च ममान्तःकरणमिति धीरहङ्कारातिरिक्तान्तःकरणविषया, ममात्मेति बुद्धिस्तूपहिता. हङ्कारात्मभेदविषयोते वाच्यम् / परमते कथमपि तत्प्रतियोगिकतदधिकरणकभेदाभावाच्छबलस्यैवाहम्पदार्थत्वप्रसङ्गाच।ममात्मा दुःखीति दुःखाश्रयतयाऽनुभूयमानस्यौपाधिकात्मप्रदेशादन्यत्वायोगाचौपाधिकात्मप्रदेशस्यैव दुःखाद्याश्रयत्वात् / अत एव ममात्मेति बुद्धिरीश्वरविषयेति निरस्तम् / ममताया उभयधर्मत्वेऽप्युभयप्रतियोगिकभेद एकस्यानुपपन्नः, स्वप्रतियोगिकभेदस्य स्वस्मिन्नसम्भवादित्याशङ्कयानभवद्वयस्याप्येकैकप्रतियोगिकभेदविषयत्वेनोपपत्तिमाह--न चैवमिति / यथा शब्दो द्रव्याश्रितः गुणत्वादित्यनुमाने वस्तुत आकाशस्यैव सामान्याकारेण विषयत्वम् / यथा वा रूपं न भवति रस इत्यनुभवे नीलरूपादीनामेव रूपत्वेन भेदप्रतियोगित्वं एवं ममात्भेति भेदप्रतीतौ ममत्वसामान्याकारेणान्तःकरणस्यैव प्रतियोगितया विषयत्वं, ममान्तःकरणमित्यत्र त्वात्मन एवेति न विरोध इत्याह--सामान्यत इति / अन्यतराप्रामाण्ये कारणाभावात् एवमेव उभयप्रामाण्यं निर्वहणीयमित्याह---विनिगमनेति / अभियुक्तानामहम्पदार्थस्य द्विरूपत्वाभिधानमुभयप्रामाण्यलिङ्गमित्याह--अत एवेति / नन्वहङ्कारात्मवादेऽप्यनुभवद्वयस्य प्रामाण्यमुपपद्यते, ममात्मेति प्रतीतेः शरीरावच्छिन्नाहंकारप्रतियोगिकतदनवच्छिन्नतद्धर्मिकभेदविषयत्वेन यथार्थ्या दिति तत्राह--न च ममेति / औषाधिकभेदस्य पारमार्थिकत्वस्यासम्भवाद. निर्वचनीयस्य त्वयाऽनङ्गीकारात्त्वन्मते अप्रामाण्यमेव स्यादित्याह--परमत इति / किं च देहाद्यवच्छिन्नस्य ममप्रतीतिगोचरत्वे तस्यैवाहम्पदार्थत्वेन तस्यानेकार्थत्वापात इत्याह--शबलस्यैवेति / किं च ममात्मेति प्रतीयमानभेद M