SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम अथवा म मम शरीरमिति प्रत्यमस्य देहाभेदप्रत्यक्षाबाधकत्वम् मम शरीरमिति प्रत्यक्षं युक्तिसहकृतं देहाभेदप्रत्यक्षबाधकमिति चेत्तहिं दुःखिनो ममात्मेति प्रत्यक्षं तद्रष्ट्रकस्य दुःखादेरतद्धर्मत्वनियमग्राहकयुक्तिसहकृतं दुःखाद्याश्रयस्यात्माभेदप्रत्यक्षबाधकमस्तु। दुःखाद्याश्रयस्यैव ममेति प्रतीतिविषयत्वादन्तःकरणावच्छिन्नचैतन्यस्यापि ममप्रतोतिविषयान्त:करणादन्यत्वात् / न चैवं ममान्तःकरणमिति प्रतोत्यनुपपत्तिः / तव मते ममात्मेति प्रत्ययवाहोः शिर इतिवच भेदोपचारात् / न च वैपरीत्यापत्तिः / आत्मनोऽहमनुभवगोचरदुःखाद्याश्रयाभेदे गौरवस्य बाधकत्वात् / अथवा ममात्मा ममाताकरणमिति प्रतीतिद्वयस्य भेदांशे घाधकाभावाद्यथार्थत्वम् / न च ममताधिकरणत्वादुभयोरपि भेदानुपपत्तिः। ममता ह्यन्तःकरणचैतन्ययोरविद्ययैकतामापन्नयोर्धर्मः, तद्भेदश्च ममान्तःकरणमात्मेति प्रतीत्य विषयीक्रियत इति न बाध्यते // तुल्यमुत्तरमित्याह-तीति / ननु ममात्मेति शरीरात्मनोभेदः प्रतीयत इत्यत आह-दुखाद्याश्रयस्येति / ननु चिदचित्समुदायस्याहमर्थतया मम प्रतीतेरपि तद्विषयत्वेनात्मनस्ततो भेदानुभवो भ्रम एवेति तत्राह --अन्तःकरणावच्छिन्नेति / मतद्वयेऽप्यहमिति प्रकाशविषयस्यैव ममताधिकरणत्वान्मम मते चान्तःकरणस्यैव तादृशत्वान्ममात्मेति तद्भेद एवात्मनः प्रतीयत इति मुख्य एवायमनुभव इत्यर्थः। नन्वन्तःकरणस्यैव ममताधिकरणत्वे ममान्तः करणमित्यन्तःकरणस्य तद्भेदानुभवोऽनुपपन्न इत्याशङ्कयान्यथोपपत्तिमाह-न चैवं ममेति / नन्वस्यौपचारिकत्वे ममात्मेत्यनुभव एवौपचारिकोऽस्तु, ममान्तःकरणमिति तु मुख्य एव किन्न स्यादित्याशङ्कय ममताधिकरणस्यात्मत्वे गौरवात्तद्भेदानुभवो मुख्य इत्याह-न च वैपरीत्येति / किं चाहकारात्मभेदवादेऽनभवद्वयस्यापि प्रामाण्यमुपपद्यत इत्याह--अथ वेति / नन्वात्मनोऽन्तःकरणस्य वैकस्य ममताधिकरणत्वात्ततः कथमुभयोर्भद इत्याशक्य ममताया उभयधर्मस्वात्तदधिकरणप्रतियोगिकभेद उभयोरप्यविरुद्ध इत्याह / न च ममेति / आत्मेति / ममात्मेति प्रतीत्येत्यर्थः॥
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy