________________ प्रथमः परिच्छदः Y3 अहमनुभवविषयस्यात्मत्वे गौरवं च किं चाहमनुभवविषयस्यात्मत्वे प्रतिशरीरं सुखदुःखादिधर्मिणस्तस्य भेद आवश्यक इति गौरवं, तदतिक्तिस्य भेदे प्रमाणाभावाल्लाघवम् / न चातिरिक्तात्मकल्पनागौरवम् / त्वयाप्यन्त:करणात्मभेदस्वीकारात् / अहमनुभवगोचरस्यात्मत्व एव परं विवादात। न चैवमहनुभवगोचरस्य ज्ञानाद्याश्रयत्वानुभवविरोधः। ज्ञानाद्याश्रयस्यात्मत्वनियमग्राहकप्रमाणाभावात् / आत्मग्राह्यस्य रूपादिवदतमत्वनियमात्तस्यानात्मधर्मत्वात् / न चैवं दुःखाद्याश्रयस्य चैतन्यसम्बन्धानुभवविरोधः। चैतन्यतादात्म्यारोपात्तदुपपत्तेः। न चात्मभेदे सिद्धे दुःखायाश्रयस्य तदभेदारोपविषयोऽयमनुभवस्तछेदस्त्वनुभवविरोधानानुमानासिध्यतीति वाच्यम् / तथा सति गौरोऽहमित्यनुभवविरोधादेहातिरिक्तात्मनोऽप्यसिद्धयापातात् // नोपाधिसम्भवः' // इति / प्रमेयलाघवं चानुकूलतर्क इत्याह-किं चेति / दुःखादि. धर्म्यहङ्काराद्भिन्नस्यात्मन एकत्वाल्लाघवमित्याह-तदतिरिक्तस्येति। उभयवादिसम्मताहङ्कारातिरिक्तात्मकल्पनमेव गौरवप्रस्तमित्याशङ्कयाह-न चातिरिक्तेति / तर्हि मतद्वयेऽप्यन्तःकरणमात्मा चेति पदार्थद्वयाभ्युपगमान्न विप्रतिपत्तिरित्याशङ्कय त्वदभिमतात्मन एवान्तःकरणत्वेन तदतिरिक्तचैतन्यस्यात्मत्वेन च मयाऽभ्युपगमान्न मतसाम्यमित्याह-अहमनुभवेति / यदुक्तं ज्ञानाद्याश्रयस्यानात्मत्वेऽनुभवविरोध इति, तदयुक्तं अनात्मत्वेऽपि तदाश्रयत्वसम्भवादित्याहन चैवमिति / प्रत्युत वैपरीत्ये मानमस्तीत्याह-आत्मग्राह्यस्येति / बुद्धयादिकं, नात्मधर्मः, आत्मग्राह्यत्वाद्, रूपादिवत्, न चात्मत्वादौ व्यभिचारः, पक्षसमत्वादिति भावः। दुःखद्रष्टुस्तदाश्रयादन्यत्वे तदभेदानुभवो विरुध्येतेत्याशङ्कयायो दहतीतिवदुपपद्यत इत्याह-न चैवमिति। नन्वभेदानुभवस्य नारोपितविषयत्वम्, बाधकाभावात् / न चोक्तानुमानमेव बाधकम् / परस्परा. श्रयप्रसङ्गादित्याशङक्य प्रतिबन्द्या दूषयति-न चात्मभेद इति / असिद्धथापातादिति / देहः, स्वव्यतिरिक्तद्रष्टकः दृश्यत्वादित्याद्यनुमानादिति शेषः / ननु शरीरस्य भोक्तृत्वे तस्यानित्यत्वेन कृतहानादिप्रसङ्ग इत्यादियुक्तिसहकृतभेदप्रत्यक्षमेवाभेदप्रत्यक्षबाधकं, ततश्च नानुमानादेहात्ममेदसिद्धिरिति शकते-मम शरीरमिति /