________________ सटीकाद्वैतदीपिकायाम् च ज्ञानानाश्रयत्वादिकमुपोधिः। वृत्तिज्ञानानाश्रयत्वादेरन्तःकरणे साध्याव्यापमत्वात्। प्रकाशस्पास्मन्मते निरधिकरणत्वेन तदनाश्रयत्वाप्रसिद्धः। न च प्रकाशात्यन्ताभावाश्रयत्वम / साधनव्यापकत्वात् / ज्ञानाश्रयत्वस्यात्मत्व इव तदनाश्रयत्वस्थाप्यनात्मत्वेऽप्रयोजकत्वात् / न चाहमनुभवातिरिक्तप्रकाशमात्रविषयत्वमुपाधिः / साधनविशेषितत्वात् // लाघवेन प्रकाशविषयत्वस्यैवोक्तसाध्यव्याप्यत्वात / अत एव नाप्रयोजकत्वम् / लाघवतर्कस्य सत्त्वात् / यदुक्तं ब्रह्मणः प्रकाशविषयत्वाभावे व्यवहारविषयत्वं न स्यादिति तत्राहतद्व्यवहारादेरिति / आदिपदेन संशयादिनिवृत्तिगृह्यते। अन्यथेति / ब्रह्मव्यवहारे तत्प्रकाशमानं हेतुने तु तद्विषयप्रकाश इति वक्ष्यत इत्यर्थः / अत्र पूर्वोक्तमुपाधि दूषयति-न चेति / ज्ञानशब्देन वृत्तिविवक्षिता, उत चित्प्रकाशः; आद्य आहवृत्तीति / अन्तःकरणस्य मतद्वयेऽप्यनात्मत्वस्य निश्चितत्वात्तत्रोक्तोपाधेरभावात्साध्याव्यापकत्वमित्यर्थः। द्वितीये, किं प्रकाशाश्रयभिन्नत्वमुपाधिरुत प्रकाशात्यन्ताभाववत्त्वम् ? आद्य प्रतियोग्यप्रसिद्धथा तदसिद्धिरिति दूषयति-प्रकाशस्येति / द्वितीयं निराफरोति - न चेति / नव मतेऽपि ज्ञानादेरव्याप्यवृत्तित्वेन पक्षेऽपि तदभावसत्त्वात् साधनव्यापकत्वमित्यर्थः / किं च सुषुप्तौ ज्ञानाश्रयत्वाभावेऽप्यात्मत्वदर्शनाद्यथा तदात्मत्वेऽप्रयोज कमेवं सद्व्यतिरेकोऽपि तद्व्यतिरेके न प्रयोजकस्तथा च नायमुपाधिरित्याह-ज्ञानाश्रयत्वस्येति / नन्वनात्मत्वेऽहमनुभवातिरिक्तप्रकाशमात्रविषयत्वं प्रयोजक, स एव चोपाधिः प्रकाशविषयत्वमात्रं पक्षेऽप्यस्तीति साधनव्याप्तिः स्यात्तव्यावृत्त्यर्थमहनुभवातिरिक्तेति / मात्रचोऽभावे ( मात्रपदाभावे) अहमनुभवातिरिक्तपरोक्षप्रकाशविषयत्वात् पक्षस्योक्तदोषः स्यात्ततो मात्रपदम् / तथा च पक्षस्याहमनुभवं प्रत्यपि विषयत्वात्तदतिरिक्तप्रकाशमात्रविषयत्वा. भावाद्भवत्ययमुपाधिरिति तत्राह-न चाहमनुभवेति / देहादौ साध्याव्यापकत्वादितिभावः / दूषणान्तरमाह-साधनविशेषितत्वादिति / साधनमिश्रितत्वादित्यर्थः / किं ततस्तत्राह-लाघवेनेति / उपाध्येकदेशस्य साधनस्य लाघवेनोक्तसाध्यप्रयोजकत्वेन व्याप्यत्वनिश्चयात्पक्षे साध्यस्य निर्णयात्तत्रैवोपाधेः साध्यव्यापकत्वभङ्ग इत्यर्थः / तदुक्तम् "अनुकूलेन तर्कण सनाथे सति साधने। साध्यव्यापकताभङ्गात्पक्षे