________________ प्रथमः परिच्छेदः वादिमनिरासः / अह नर्थस्यानात्मत्वसिद्धान्तः ___ अत्रोच्यते / अहमनुभवविषयोऽन्तः करणधर्मातिरिक्ताहमिति ज्ञानविषयो वा, स्वप्रकाशान्यो वा, न स्वद्रष्टा, स्वष्यतिरिक्तद्रष्ट्रको वा, दृश्यत्वात् स्वप्रकाशत्वानधिकरणत्वाहा / घटादिवत् / आद्यहेतो निर्दष्टतासाधनम् दृश्यत्व च प्रकाशविषयावं, तच मतद्वयसाधारणं ब्रह्म च न प्रकाशविषयस्तव्यवहारादेरन्यथापि सम्भवादिति वक्ष्यते। न उक्तदोषगणपरिहारंप्रतिजानीते- अत्रेति / अहमनुभवोऽहमिति व्यवहारहेतुप्रकाशः। स चास्मन्मते वृत्युपहितं चैतन्यं, परमतेऽहङ्कारधर्मस्तद्विषयः पक्षः। स चास्मन्मते जडांश एव; परमते देहाद्यतिरिक्तस्तदभिमतात्मैवेति न बाधो न वा सिद्धसाधनम् / न च पराभिमतात्मत्वेन सिद्धसाधनम्। पक्षतावच्छेदकधर्मावच्छेदेन साध्यसिद्धरनुमानफलत्वमतेऽशंतः सिद्धसाधनत्वस्यादोषत्वात् / मतान्तरे तु विषयपदस्यविशेष्यपरत्वान्न सिद्धसाधनम् / वृत्तिविशिष्टचैतन्यं ज्ञानपदार्थ इति मतेन पक्षान्तरमाह-अन्तःकरणेति / ज्ञानविषय इत्युक्ते घटादेः पक्षता स्यात्तव्यावृत्तयेऽहमिति / अहमिति वृत्तिज्ञानविषयचिदात्मव्यावृत्तयेऽन्तःकरणधर्मातिरिक्तति ज्ञानविशेषणम् / गुरुमतानुसारिणं प्रति पक्षान्तरमाह -स्वप्रकाशति / साध्यमाह-न स्वद्रष्टेति / स्वशब्दः समभिव्याहृतपरः स्वव्यवहारजनकप्रकाशाश्रयो नेत्यर्थः / प्रकाशाश्रयो नेत्येतावत्युक्त प्रदीपादेःप्रकाशानाश्रयत्वेन सिद्धसाधनं स्यात्तन्निवृत्तये स्वव्यवहारजनकेति / स्वव्यवहारजनकाश्रयो न भवतीत्युक्त बाधस्तादृशादृष्टाश्रयत्वात्तनिवृत्त्यर्थं प्रकाशेति / ननु सिद्धान्तेऽहकारव्यवहारहेतुप्रकाशस्यसाक्षिणोऽनाश्रितत्वेन तदाश्रयाप्रसिद्धेस्तनिषेधानुपपत्तिरिति चेत् / न, शून्यवत् परप्रसिद्धिमात्रेणापि निषेधसम्भवात् / तादृशप्रकाशात्यन्ताभावो वा साध्यः। तथा चाहमनुभवगोचरस्य स्वद्रष्टत्वाभावसिद्धेस्तस्य दृश्यत्वमहिम्नाऽऽत्मान्तरसिद्धिरिति भावः / इदानीं मुखत एवात्मान्तरं साधयति-स्वव्यतिरिक्तति / अहङ्काव्यतिरिक्तदृपात्मनोऽपि वृत्तिकृतभेदेन दर्शनवत्त्वमस्तीति न बाधः। नैयायिकादीन्प्रति हेतुमाह-दृश्यत्वादिति / प्रभाकर प्रति हेतुमाह-स्वप्रकाशत्वेति / / आद्यं हेतुं निरूपयन् ब्रह्मणि व्यभिचारमुक्तं परिहरति-दृश्यत्वं चेति /