________________ सटीकाद्वैतदीपिकायाम् कर्तृत्वाद्ययोगाच / न च जाग्रत्येव कदाचिदमतीयमानत्वाना भावस्याविद्याविषयत्वस्य वा अप्रकाशमानत्वस्यासिद्धेश्च / किं चाहमर्थस्यानात्मत्वेऽहं करोमि जानामीति प्रतीत्यनुपपतिः / कर्तृत्वादेरात्मधर्मत्वात् / अहं मुक्तः स्यामिति प्रवृत्यनुपपत्तेश्च / अहमर्थस्यान्तःकरणगर्भितत्वे मम मन इति प्रतीत्ययोगाच / मम मनःस्फुरति मनोऽस्तीति ज्ञानादहमिति ज्ञानस्यावैषम्यप्रसङ्गाच्च। ज्ञानानाश्रयत्वं चोपाधिः / अहमर्थ आत्मा ज्ञानाश्रयत्वादिभ्यः ईश्वरात्मवयतिरेकेण घटवति सत्प्रतिपक्षत्वाचेति। वेद्यत्वाच्च तदनुभव आवश्यक इत्याह-कि च सुपुप्ताविति / स्मरणस्याहङ्कारधर्मस्वादनुभवकाले तदभावे तस्य स्मर्तृत्वानुपपत्तिरित्याह-द्वितीय इति / आत्मानुभवबलात्तदुपपत्तिमाशङ्कयाह-अन्यानुभूतेति / अनुभ वितृचैतन्यतादात्म्यात्तदुपपत्तिमाशङ्कथातिप्रसङ्गमाह-चैतन्येति / दुःखिन एव हि दुःखाभावः पुरुषार्थस्ततश्च दुःख्यहङ्कार एव सुषुप्तौ तदभाववत्तया वक्तव्य इत्याह - अहं निदुःख इति। किं च सुषुप्तिकालीनाहङ्कारेणेदानींतनस्यैक्यानुभवान्न तदा तदभाव इत्याह- यो ऽहं सुप्तइति / किं च सुषुप्तावहङ्कारनाशे तत्कृतकर्मणामानर्थक्यमन्यस्योत्पन्नस्याकस्माद्भोगश्च स्यादित्याह-कृतहानेति / नन्वनादिचैतन्यस्यानुगतत्वान्नोक्तदोष इत्याशङ्कथ तस्य कूटस्थत्वेन कर्तृत्वाद्यनुपपत्तिरित्याह-अभिन्नेति / चैतन्यमात्रस्य कर्तृत्वाद्यभिधानमनुभवविरुद्धं चेत्याह-अहं करोमीति / एवं सुषुप्तावहङ्कारस्य सत्वात् प्रतीयमानत्वाच्च विशेष्यासिद्धो हेतुरित्युक्तमिदानी जाग्रत्येव घटादिज्ञानसमये तदप्रतीते सिद्धिरित्याशङ्कय तव मते तदापि तस्य केवलसाक्षिवेद्यत्वाद्विशेष्यासिद्धिः, मम मते तु विशेषणासिद्धिरित्यभिप्रेत्याह-न च जाग्रत्येवेति / किं च किमिदमप्रकाशमानत्वं प्रकाशाभाववत्वमविद्याविषयत्वं वा, नोभयथापि, तत्प्रकाशकस्य साक्षिणो नित्यत्वाजडस्याविद्याविषयत्वायोगाच्चेत्याह-प्रकाशाभावस्येति / अनुमानस्य प्रत्यक्षविरोधमप्याह -- किं चेति / प्रतिकूलतर्कविरोधं चाहअहं मुक्तः स्यामिति / अनात्ममुक्तयर्थ प्रवृत्त्ययोगादित्यर्थः। किं चाहमर्थस्यानात्मत्वमात्रमत्राभिप्रेतमुतान्तः करणरूपत्वमपि ? आद्य दूषणमुक्तम् / द्वितीये मनसस्ततो भेदग्रहविरोधोऽपीत्याह -- अहमर्थस्येति / अहङ्कारमनसोरभेदे तदुभयविषयप्रतीत्यो_लक्षण्यं न स्यादित्याह-मम मन इति। व्याप्यत्वासिद्धश्चायमित्याह-ज्ञानानाश्रयत्वं चेति / प्रतिप्रयोगपराहतिं चाह-अहमर्थ इति / ईश्वरस्य ज्ञानाश्रयत्वमसिद्धमित्यत आह-व्यतिरेकेणेति //