________________ प्रथमः परिच्छेदः महङ्कारे परामृश्यमानत्वभ्रमनिरास: - न च परामृश्यमानात्माभेदारोपादहङ्कारस्य तथात्वमिति वाच्यम् / तद्भेदसिडेः पूर्वं तदभेदानुभवस्य भ्रमत्वासिद्धः / एतेन सुषुप्तावहमर्थप्रकाशे स्मर्येत ह्यस्तन इवाहकार इति निरस्तम् / स्मर्यमाणत्वात् / सुखमहमस्वाप्समिति परामर्शस्य तद्विषयत्वात् / महमित्यभिमन्यमानएवासमिति परामर्शः स्यादिति चेत् / न, अहमर्थप्रकाशे तदभिमानपरामर्शापादनस्य व्यधिकरणत्वात् / सुषुप्तावहङ्कारसद्भावसमर्थनम् किं च सुषुप्तावहङ्कारोऽस्ति न वा। आये न तदा तदननुभवः / तस्य भवन्मते केवलसाक्षिवेद्यत्वात्। द्वितीये तस्य स्मर्तृत्वानुपपत्तिः। अन्यानुभूतेऽन्यस्य स्मरणायोगात् / चैतन्याभेदमात्रस्यातिप्रसक्तत्वात्। अहमर्थस्य सुषुप्तावभावेऽहं निर्दुःखः स्यामिति सुषुप्त्यर्थिप्रवृत्त्ययोगात्। योऽहं सुप्तः सोऽहं जागर्मीति प्रत्यभिज्ञानविरोधात् / अहङ्कारव्यक्तिभेदात् कृतहानाकृताभ्यागमश्च / कर्तुरन्यत्वाड्रोक्तुरभिन्नचैतन्यस्य कर्तृत्वाद्यभावात् / अहङ्करोमीत्येव प्रतीत्याऽहमर्थान्यात्मनि आह-न चाहङ्कारस्येति / अत्र सुखस्वापयोर्विशेषणतया भानादहमर्थस्य विशेष्यत्वेनाविषयत्वे निर्विशेष्यकपरामर्श एव न स्यादित्याह-निर्विषयेति / यदुक्तमहमंशे परामर्शो ऽनुभव एवेति तत्तदंशेऽपि स्मृतित्वानुभवविरुद्धमित्याह / अहङ्कारांशेति // ननु परामर्शविषयात्मचैतन्याभेदारोपादहकारे परामृश्यमानत्वभ्रमस्तथा च न विरोध इत्यत्राह-न च परामृश्यमानेति / अहङ्कारात्मभेदस्यासिद्धत्वेन परामृश्यमानात्माभेदस्यारोपितत्वमसिद्धमित्याह-तद्भद सिद्धेरिति / सुषुप्तावहमर्थप्रतीतेः साधितत्वादाचार्योक्तबाधकतर्कोऽपि निरस्त इत्याह-एतेनेति / ह्यस्तन इति / पूर्व दिनवर्तीत्यर्थः। तर्हि ह्यस्तनवदभिमानोऽपि परामृश्येतेति शङ्कते-अहमितीति / अभिमानस्याननुभवान्न तत्परामर्श इत्यभिप्रेत्याह-न, अहमर्थेति / किं च सुषुप्तावहमर्थस्यावश्यकत्वात्तस्य केवलसाक्षि