________________ सटीकाद्वैतदीपिकायाम हेत्वाक्षेपः दृश्यत्वमपि दर्शनविषयत्वं वा वृत्तिविषयत्वं वा, स्वव्यवहारे चैतन्यापेक्षत्वं वा, न सम्भवति। ब्रह्मणि व्यभिचारात् / ब्रह्मणः प्रकाशविषयत्वाभावे व्यवहारविषयत्वासम्भवात्। नापि स्वव्यवहारे स्वातिरिक्तज्ञानापेक्षत्वम् / ब्रह्मव्यवहारेऽपि तदतिरिक्तवृत्तिज्ञानापेक्षणात / न च चैतन्यं ज्ञानशब्दार्थः। ब्रह्मव्यवहारस्थापि तद्भिन्नजीवचैतन्यवृत्तिचैतन्यापेक्षणात्। न च वस्तुतो तिरिक्तत्वं विवक्षितमिति वाच्यम। सिद्धान्ते तदभावात / द्वितीयेऽपि हेतावप्रतीयमानत्वमसिद्धम। अहमिति प्रतीयमानत्वात्। न च सुषुप्तावहङ्कारो न प्रतीयत इति वाच्यम् / सुखमहमस्वाप्समिति तत्परामर्शदर्शनेन तदापि तत्प्रतीतेः / न चाहङ्कारस्य तदाश्रयाभेदात्तथाऽनुभवो न तु स परामर्शविषय इति वाच्यम् / निर्विषयपरामर्शायोगात् / अहंकारातिरिक्त विषयाननुभवात् अहङ्कारांशज्ञानेऽपि परामर्शत्वानुभवाच // प्रथमं हेतुं विकल्प्य दूषयति-दृश्यत्वमपीति / ननु ब्रह्मणः स्वप्रकाशस्वरूपस्य दर्शनविषयत्वाभावान्नाचहेतोस्तत्र व्यभिचार इत्यत आह-ब्रह्मण इति / व्यवहारस्य स्वसमानविषयप्रकाशजन्यत्वनियमादित्यर्थः / प्रकारान्तरेण दृश्यत्वनिरुक्तिमाशङ्कय दूषयति-नापीति / किमत्र ज्ञानपदेन वृत्तिर्विवक्षिता उत तदतिरिक्तं चैतन्यम् आद्ये व्यभिचारमाह-ब्रह्मव्यवहारे ऽपीति / द्वितीयमपि व्यभिचारेण दूषयतिन च चैतन्यमिति / जीवचैतन्येति / प्रमातृतया जीवचैतन्यस्य प्रमाणतया वृत्यभिव्यक्तचैतन्यस्य चापेक्षणादित्यर्थः / ननु ज्ञानस्य स्वातिरिक्तत्वं वास्तवं विवक्षितम् / प्रमातृप्रमाणचैतन्ययोब्रह्मापेक्षया न वास्तवातिरिक्तत्वमिति न व्यभिचार इत्याशङ्कय तव मते वास्तवभेदस्य कुत्राप्यभावादसिद्धिः स्यादिति दूषयति--न चवस्तुत इति / तस्मिन्प्रतीयमानत्वेऽप्यप्रतीयमानत्वादिति हेतौ किं सर्वदा प्रतीयमानत्वं विवक्षितमुत कदाचित् ? आधे ऽसिद्धिमाह-द्वितीये ऽपीति / द्वितीयं दूषयतिन चेति / सौषुप्तिकाहङ्कारस्य परामर्शदर्शनेन तदा तदनुभवो वाच्यः / तथा चात्रापि पक्षे हेतुरसिद्ध इत्याह--सुखमहमिति / नन्वस्य परामर्शस्य नाहकारो विषयो येन सुषुप्तौ तदनुभवः कल्प्येत, किन्तु तस्य परामर्शस्याश्रयभूतचिदात्माभेदारोपादहमंशे परामर्शोऽनुभव एव / तथा च सुषुप्तावप्रतीयमानत्वान्नासिद्धिरित्यत