________________ प्रथमः परिच्छेदः त्वेन बाधात् / न चान्तःकरणमेवाहम्पदार्थ। भागत्यागलक्षणा भ्युपगमविरोधात् / चेतनवाचिनो ऽहंशब्दस्य केवलान्तःकरणवाचकत्वायोगात्। तथात्वे वा सिद्धसाधनत्वात्। न चाहमिति ज्ञानविषयः सः / चैतन्यस्याप्यहमिति बृत्तिविषयत्वात् / तदतिरिक्त ज्ञानस्य परम्प्रत्यसिद्धः। नापि ज्ञानाद्याश्रयः पक्षः। त्वभिमतात्मनो वृत्तिज्ञानाश्रयत्वाचैतन्यानाश्रयत्वात् / नापि तदुपादानं पक्षा। सर्वोपादानचिद्रूपब्रह्मणोऽपि तत्सत्वात् / परिणामित्वस्य परं प्रत्यसिद्धः / तत्समवायित्वस्य सिद्धान्तेऽन्तःकरणेऽप्य भावात् / ज्ञानाद्युपादानस्यात्मत्वेन बाधाच // साध्याक्षेपः साध्यमप्यात्मत्वाभाव आत्मान्यत्वं वा न सम्भवत्यात्मत्वजातेः सिद्धान्ते ऽभावात् / ज्ञानाद्याश्रयत्वमात्मत्वं चेत्सदभावसाधने बाधः / ज्ञानत्वं चेत्सिद्धसाधनम् / पपादयति-अन्तःकरणेति / देहस्यापि तादृशत्वेन पक्षत्वेन बाध इति शङ्कते-देहो ऽपीति / तमुन्यदूषणमित्याह-तहीति / तृतीयमनूद्यांशतो बाधेन दूषयति-अथाहमिति / उभयात्मकत्वेनेति / चिदचिदात्मकत्वेनेत्यर्थः। अचिदंश एव तदर्थ इत्याशङ्कयाह-न चेति / भागत्यागेति / अहंब्रह्मास्मीति वाक्येऽहमर्थस्य ब्रह्माभेदविरुद्धमचिदंशं परित्यज्य चिदशोऽहंपदेन लक्ष्यत इत्यभ्युपगमविरोधः स्यादित्यर्थः। केवलान्तःकरणवाचित्वं व्युत्पत्तिविरुद्धं चेत्याह- चेतनवाचिन इति / अङ्गीकृत्याप्याह-तथात्वे वेति / चतुर्थ दूषयति-न चाहमिति / सः पक्षः। ज्ञानपदेन किं जन्यज्ञानं विवक्षितमुताजन्यम्, आधे बाध इत्याह-चैतन्यस्यापीति / द्वितीये पक्षासिद्धिरित्याह-तदतिरिक्तेति / पञ्चमं दूषयति–नापीति / अत्रापि ज्ञानं जन्यमजन्यं वेति विकल्प्य क्रमेण दूषयति-त्वदभिमतेति / षष्ठं दूषयति-नापि तदुपादानमिति / सप्तमाष्टमावन्यतरासिद्धथा दूषयति-परिणामित्वस्येत्यादिना / उत्तरकल्पचतुष्टये दूषणान्तरमाह-ज्ञान छुपादानस्येति // साध्येऽपि किमनात्मत्वमात्मत्वाभाववत्वमात्मत्ववदन्यत्वं वा? उभयत्रापि किमात्मत्वं जातिः, ज्ञानाद्याश्रयत्वं वा, ज्ञानत्वं वेति विकल्प्य, सर्वथाप्ययुक्तमित्याह-साध्यमपीति /