________________ 15 सटीकाद्वैतदीपिकायाम् न चान्तर्यामिरूपेमानुप्रवेशो न तु जोवरूपेणेति वाच्यम् / अनुप्रविष्टस्य “स एष इह" इत्यादौ तत्र तत्र भोक्तृत्वश्रवणात् / "अनेन जीवेन" इत्यनुप्रविष्टे जोवशन्दश्रवणाचेति // अहङ्कारातिरिक्तात्मनि युक्तिप्रदर्शनम् इदानीं युक्तितोऽप्यहङ्कारातिरिक्तश्चित्स्वभाव आत्मा निरूप्यते / अहङ्कारो, नात्मा, दृश्यत्वात्, तस्मिन्प्रतीयमानेऽप्यप्रतीयमानत्वाद्वा / घटवत् // अत्र पूर्वपक्षिणः आक्षेपः स्यादेतत्।अहङ्कारो यद्यन्तःकरणं तदा सिद्धसाधनम् / अथ तदतिरिक्तोऽहमिति व्यवहारविषयस्तदा बाधः / अन्तः करणातिरिक्ताहमितिव्यवहारविषयस्यैव चैतन्यस्य तव मत आत्मत्वात् / देहोऽपि तद्व्यवहारविषय इति चेत्तर्हि सिद्धसाधनम् / अथाहमिति पदार्थोऽहङ्कारः। न, तस्यापि भवन्मते उभयात्मक व्यवहरनास्ते माययैव तस्मादद्वय एवायमात्मा” पुरश्चक्रे द्विपदः "पुरश्चक्रे चतु पदः पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्” “रूपं रूपं प्रतिरूपो बभूव'' इत्यादिकाः श्रुतय उक्तार्थ मानमित्याह-एवं तत्रेति / प्रवेशश्रुतेरन्यथोपपत्तिमाशङ्कयाहन चेत्यादिना। भाक्तृत्वश्रव गादिति / “पश्यन् शृण्वन्मन्वान" इति श्रुतेरित्यथः / / एवं अतितोऽहकारात्मनोभेदं प्रसाध्येदानीं न्यायतः साधयितुमुपक्रमते / इदानीमिति / . तत्र विवरणाचार्याऽनुमानं प्रयुक्ते-अहङ्कारो नात्मेति / आत्मा तच्छब्दार्थः // अत्र पक्ष एव तावदुर्निरूप इत्याह पूर्ववादी-स्यादेतदिति / अत्र पक्षीकृताहङ्कारः किमन्तःकरणं, तदतिरिक्तोऽहमिति व्यवहारविषयो पा, अहमिति पदार्थो वा, अहमिति ज्ञानविषयो वा, ज्ञानाद्याश्रयो वा, ज्ञानोपादानं वा, ज्ञानपरिणामी वा, ज्ञानसमवायी वेति विकल्पं मनसि निधायाद्यमनूद्य दूषयति-अहङ्कारो यदीति / द्वितीयं निराकरोति-अथ तदतिरिक्तेति / बाधमेवो.