________________ प्रथमः परिच्छेदः भूतपश्चकसङ्घातः क्षेत्रं तत्र व्यवस्थितः // जीवो यस्तं विदुः प्राज्ञाः क्षेत्रज्ञं परसंज्ञितम् // इति परव्यावृत्तजीवं क्षेत्रज्ञं दर्शयति // अभोक्तृत्वस्य आत्मन्युपपादनम् ननु कथमचेतनस्यान्तःकरणस्य भोक्तत्वमिति चेत् / न, नहीयं श्रुतिरचेतनस्य भोक्तृत्वं वदति, तथा सत्युभयपरत्वेन वाक्यभेदप्रसङ्गात् / अपि तु चेतनस्याभोक्तत्वमेव प्रतिपादयन्ती चैतन्यसमानाधिकरणभोक्तृत्वप्रतीतिस्तहि कथमित्याशय चैतन्याभोक्तत्वप्रमित्यर्थमेव चिच्छायाग्राह्यन्तःकरणगतमनुवदति / तथा च द्वासुपर्णेति मन्त्रेण जीवः परमात्मभावाभिप्रायेणाभोक्तति प्रतिपाद्यते / एवं तत्र तत्र परमात्मन एव बुद्धावनुप्रवेशश्रुतिरपि जीवो वस्तुतः अभोक्तेति मते प्रमाणम् / प्रसिद्धरित्यर्थः। वस्तुतो ब्रह्माभिन्न एव क्षेत्रज्ञपदार्थ इत्युक्तमागमसम्मत्या द्रढयतिएवं पाञ्चरात्रे इति / आत्मन इति स्वकीयशाखागतश्रुत्युक्तमित्यर्थः। अथवा परक्षेत्रज्ञयोरात्मनः स्वरूपस्यैक्यमित्येवं योजना। आत्मनोरिति पाठोऽस्ति चेत् सुबोधः। श्रुत्युक्तं सदृष्टान्तमुपपादयति-क्षेत्रज्ञस्येति / परस शितमिति / वस्तुतः पराभिन्नमित्यर्थः / परव्यावृत्तमिति / औपाधिकभेदेन भिन्नमित्यर्थः॥ अशनवाक्यमन्तःकरणविषयमित्युक्तं तदाक्षिपति-नन्विति / अचैतन्यस्यापि चैतन्यतादात्म्याद्भोगपरिणाम इति वक्तुं श्रुत्यभिप्राय तावदाह-न, न हीयमि ते / उभयपरत्वेनेति / सत्त्वस्य भोक्तृत्वं क्षेत्रज्ञस्य तदभाव इत्यथद्वयपरत्वेनेत्यर्थः। जीवो वस्तुतोऽभोक्तव तस्मिन्प्रतीयमानो भोगः स्फटिकगौहित्यवदौपाधिकः। उपाधिश्च क इत्याकाक्षायां चित्प्रतिबिम्बाश्रयतया लब्धचेतनभावो दुःखादिपरिणाम्यन्तः करणमेवेति तयोरन्य इति अतिरनुवदतीत्याहअपि विति / मन्त्रार्थमुपपादितमुपसंहरति-तथा चेति / किं च सर्वशाखास्वपि "स एष इह प्रविष्ट आनखाग्रेभ्यः" "तत्सृष्टा तदेवानुप्राविशत्" "अनेन जीवेना "स एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इस