________________ सटीकाद्वैत दीपिकायाम् अनश्वनिति श्रुतेः जीवपरता कथं तर्हि पिप्पलं स्वाबत्तीति श्रुतिरिति चेत / सा हि ब्रह्मस्वरूपस्य सतो जीवस्य बुद्धयुपाधिकृतं भोक्तृत्वमनुभवसिद्धमनुवदति केवलस्वरूपेण तस्यैवाभोक्तृत्वं दर्शयितुं न तु भोक्तृत्वपरा। अत एवायं मन्त्रो पैङ्गिरहस्यब्राह्मणेनास्मदुक्ताभिप्रायेण व्याख्यातः- "तयोरन्यः पिप्पलं स्वाबत्तीति सत्वं, अनश्नन्नन्यो भभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः तावेतो सत्त्वक्षेत्रशावि"ति। ननु तत्रापि सत्त्वशब्दो जीवं क्षेत्रज्ञशब्दश्च परमात्मानमभिदधातीति चेत् / न, "तदेतत्सत्त्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञ" इति ब्राह्मणेन सत्त्वक्षेत्रज्ञपदयोरन्ताकरणशारीरपरतया व्याख्यातत्वात् / येनेति यच्छन्दवाच्यस्य तदित्यत्र तच्छब्देनाभिधानाजीवस्यैव स्वप्नोपद्रष्टत्वात् / जीवक्षेत्रज्ञो न भिन्नो एवं पाश्चरात्रे परमात्मसंहितायाम् परक्षेत्रज्ञयोरैक्यमात्मनः श्रुतिचोदितम् / क्षेत्रज्ञस्य बहुत्वं हि देहभेदात्प्रतीयते // एकस्यैव तु विम्बस्य दर्पणेषु यथा भिदा / / स्फटिकलौहित्यवदौपाधिकं जीवस्य भोक्तृत्वं तदर्थ इति परिहरति-सा हीति / यत एतस्य भोक्तत्वमनीश्वरत्वं वाऽन्यतः सिद्धत्वान्न श्रुतिगम्यमत एवायं मन्त्रो ब्राह्मणवाक्येनाज्ञातजीवपरमार्थस्वरूपपरतया व्याख्यात इत्याह-अत एवेति / ज्ञश्चिद्रूपः। पर्यवसितमन्त्राथं श्रुतिः संक्षिप्य दर्शयति-ताविति / इदं व्याख्यानं जीवेशभेदपक्षेऽपि न विरुध्यत इति चोदयति-ननु तत्राीति / एतच्चोy श्रुत्यैव निरस्तमित्याह-न, तदेतदिति / नन्वत्रापि यः स्वप्नं पश्यति तत्सत्वं य उपद्रष्टा स क्षेत्रज्ञ इति जीवेशावेवोक्ताविति तत्राह-येनेतीति / यत्तदोरेकार्थत्वात्करणे च यच्छब्दप्रयोगात्तदेव तच्छब्दसमानाधिकरणसत्त्वशब्दार्थः / उपद्रष्टेत्यत्रापि स्वप्नस्य सन्निहितत्वात्तद्रष्टा जीव एव क्षेत्रज्ञपदेनोच्यते शारीरत्वं च तस्यैव सम्भवति "शारीर आत्मा प्राज्ञेनात्मना" इत्यत्र जीवस्यैव शारीरत्वेन