________________ प्रथमः परिच्छेदः .त्मकं जीवस्वरूपं दर्शयति / सूत्रकारोऽप्यहमनुभवविषयातिरिक्तं जीवस्य ब्रह्माख्यं रूपं न षष्ठप्रपाठके प्रतिपाद्यमुपक्रमादेरहमनुभवगोचरमात्रनिष्ठत्वादित्याशक्य सुषुप्त्युत्क्रान्तिकालयोः "प्राज्ञेनात्मना सम्परिष्वक्तो न पायं किश्चन वेद", "प्राज्ञेनात्मनाऽन्वारुढ उत्सर्जन्याति" इत्यादिना संसारिणः पारमार्थिकब्रह्माख्यस्वरूपान्तरनिर्देशात् “योऽयं विज्ञानमय" इत्याद्यसङ्गोदासीनजीवस्वरूपपरमित्याह-सुषुप्युत्क्रान्त्योर्भेदेनेति / एवं "तयोरन्यः पिप्पलं स्वादत्यनश्नन्नन्यो अभिचाकशीति" इत्यभोक्तारं जीवं दर्शयति / नन्वयं मन्त्रः परमात्मन एवानशनं दर्शयति जीवस्य तु पिप्पलं स्वाबत्तीति भोक्तृत्वमेव दर्शयतीति चेत् / न, एवं सति "ब्रह्मवेद ब्रह्मैव भवति" इति वाक्यशेषावगतस्य विदुषो ब्रह्मभावस्योपक्रमगतैकविज्ञानात्सर्वविज्ञानप्रतिज्ञानस्य च बाधप्रसङ्गात् / भोक्त्रभोक्त्रोरभेदायोगात् / पुरुष इति क्षणिकविज्ञानात् सर्वासु पूर्घशेत इति पुरुषशब्दार्थत्वात् / अत एवानवच्छिन्नत्वमस्याः श्रुतेरुक्तमर्थ भगवान् बादरायण आचार्योऽपि न्यायपुरःसरं निर्णयामासेत्याह--सूत्रकारोऽपीति / षष्ठप्रपाठके षष्ठाध्याये / उपक्रमादेरिति-'स वा अयं पुरुषो जायमान" इत्यादिना जन्ममरणावस्थात्रयादेरुपन्यासादित्यर्थः / सुषुप्तिकाले प्राज्ञेन परमेश्वरेणात्मना स्वस्वरूपेण सम्परिष्वक्तो भेदबुध्यभावमात्रेणक्यं गतः / उत्क्रान्तिकाले प्राज्ञनात्मनान्वारूढ अधिष्ठितः, उत्सर्जन हिक्कादिशन्दं कुर्वन्यातीत्यर्थः। अत्रात्मनेति विशेषणात्प्राज्ञस्य जीवस्वरूपेण सम्परिष्वक्तत्वमुक्तम् अहमनुभवे प्रकाशमानस्यैवात्मपदार्थत्वादिति भावः। जीवरूपस्य भोक्तव्यतिरेके आथर्वणश्रुतिमपि प्रमाणयति–एवं तयोरिति / अनश्नन्नन्य इत्यस्य परमात्मविषयत्वं शङ्कते-नन्वयं मन्त्र इति / भिन्नजीवेश्वरपरत्वेन व्याख्यानं पूर्वोपरवाक्यविरुद्धमिति दूषयति-न, एवं सतीति / उपक्रमगतेति / "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति श्रुतेरित्यर्थः / अनश्नन्वाक्यस्य जीवविषयत्वेऽन्यस्य भोक्तुरभावादशनवाक्यमनर्थक स्यादिति चोदयति-कथं तीति /