________________ 12 सटीकाद्वैतदीपिकायाम् किं चान्नमयादेरपि ब्रह्मत्वे "अन्योऽन्तर आत्मा प्राणमय" . इत्यादिना तदन्यत्वतदान्तरत्वव्यपदेशो न स्यात् / न हि ब्रह्म पाह्याभ्यन्तरभूतमनेकमस्ति / न चैकस्याप्यनेकरूपभावादुपपद्यत इति वाच्यम्, रूपान्तरविशिष्टस्य वस्तुतो रूपान्तरविशिष्टाद् भेदे ब्रह्मकत्वावधारणश्रुतिविरोधात् / अभेदे आन्तरत्वाद्यनुपपत्तेः / भेदाभेदस्य विरुद्धत्वात् / तस्मान्मन्त्रे प्रतिज्ञातम् "आत्मन आकाश: सम्भूत' इत्यादिना "अन्नात् पुरुष" इत्यन्तेनारम्भणाधिकरणन्यायेन समर्थ्य गुहाप्रवेशेन प्रतिज्ञातं सर्वान्तरत्वं शरीरप्राणादिभ्यो बाह्याभ्यन्तरभावेन स्थितेभ्योऽप्यान्तरताप्रदर्शनेन प्रतिपादयितुम्, शाखचन्द्रन्यायेनान्नमयादीन् कोशान् “स वा एष" इत्यादिनोपन्यस्य, बाह्यात्मबुद्धिनिरासार्थ तत्तकोशेष्वात्मबुद्धि द्रढयितुम्, येऽन्नं ब्रह्मोपासत इत्यादिनान्नाद्यवच्छिन्नब्रह्मोपासना विधत्त इति भगवत्पादव्याख्यैव प्रख्यातबहुगुणेति / बृहदारण्यकरीत्या अहङ्कारस्य अनात्मता तथा “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तोतिः पुरुष" इति प्राणान्तःकरणाख्याहङ्कारक्षणिकविज्ञानातीतमनवच्छिन्नज्योतिरा मन्त्रे, “सत्यं ज्ञानम्" इति सङ्ग्रहवाक्ये / आरम्भणाधिकरणन्यायेनेति / तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यधिकरणेनोक्तेन सतो वा असतो वा भिन्नस्य वा अभिन्नस्य वा कार्यस्योत्पत्तेरयोगात् 'वाचारम्भणं विकार" इत्यादिशब्दैः स्वतः सत्त्वनिषेधात् कारणसत्तयैव सद्वत्प्रतीयमानं कार्यमनिर्वचनीयमतो न वस्तुतः कार्यकारणभेद इति न्यायेन प्रतिपाद्यत्यर्थः / सर्गवाक्येनैवानन्त्यसिद्धेः 'स वा एष पुरुष" इत्यादि किमर्थमित्याशङक्य प्रतिज्ञान्तरोपपादकत्वेनोपयोगमाहगुहाप्रवेशेनेति / बुद्धिगुहाशब्दार्थः / शाखा चन्द्रन्यायेनेति / चन्द्रलेखामपश्यन्तं प्रति शाखाग्रं पश्येति तदुपलक्षणं शाखाप्रमुपदिश्य पश्चाद्यथा तत्स्वरूपमुपदिश्यते तद्वदित्यर्थः / अन्नमयादिषु ब्रह्मशब्दप्रयोगस्याभिप्रायमाह--बाह्यात्मबुद्धीति / बृहदारण्यकश्रुतिरप्यहङ्कारानात्मत्वे प्रमाणमित्याह तथा योऽयमिति / हृद्यन्तोतिरिति जडान्तःकरणात्मकाहकारतवृत्त्यज्ञानेभ्यो भेदः प्रतीयते,