________________ 31 प्रथमः परिच्छेदः त्वस्यान्याय्यत्वात् / प्रथमावगतव्युत्पत्तिविरोधाच। लक्षणायाश्चायुक्तत्वात् / आकाशादेः कार्यत्वासिद्धिप्रसङ्गाच / किमिदं सारभूतत्वम् / वियदाद्युपादानत्वम्, तन्नियन्तृत्वम्, तत्सत्तात्मकत्वं वा ? प्रायद्वये ब्रह्मणो नाकाशादिशब्दवाच्यता। न हि गोपालादिः मृद्रा गोघटादिशब्दरभिधीयते / तृतीये तु स्पष्टं कार्यस्य मिथ्यात्वम् / अन्यसत्तया वियदादेः सद्बुद्धिगोचरत्वात् / अन्नमयादीनामब्रह्मत्यम् __ यत्त्वन्नमयादिविषयश्लोकेषु ब्रह्मशब्दश्रवणादन्नमयादिरपि ब्रह्मैवेति / तन्न, यथा मनसि ब्रह्मशब्दश्रवणेऽपि मनो न ब्रह्म एवमन्नं ब्रह्मेति सामानाधिकरण्यमात्रेण नान्नस्य ब्रह्मत्वम, किन्त्वन्नरसविकारमेव, तदवच्छिन्नो जीवो वा तथोपास्यः। अनेकार्थत्वस्येति / ननु तर्हि ब्रह्मण्येवाकाशादिपदशक्तिरस्तु नेत्याह-प्रथमेति / तर्हि लक्षणया ब्रह्माभिधानमित्याशय सैव दोष इत्याह-लक्षणायाश्चेति / किं च लक्षणया ब्रह्माभिधाने भाकाशादेरनभिधानात्तस्य कार्यत्वासिद्धिः स्यादित्याहआकाशादेरिति / किं चास्मिन् पक्षे सम्भूतपदानन्ययप्रसङ्गो भूतसारत्वादिति हेतु. वैयर्थ्य चेति चशब्दार्थः / ब्रह्मणो भूतसारत्वमपि दुर्निरूपमित्याह-किमिति / गवां नियन्ता गोपालः। घटस्योपादानं मृत् / अनयोर्गोघटपदवाच्यत्वं न दृष्टमिति हेतुमाह-न हीति / तृतीयं तु तवासिद्धमित्यभिप्रायेणाह-तृतीये त्विति / ___ "येऽन्नं ब्रह्मोपासत इत्यादिनाऽन्नमयादिषु ब्रह्मशब्दः श्रूयत इति चोधमनुवदति-यत्त्वन्नमयादीति / ___उपास्तिश्रवणात्तेषु ब्रह्मदृष्टयभिप्रायं ब्रह्मपदम् , न तु ब्रह्मत्वपरमिति सदृष्टान्त. माह-तन्न यथेति / किश्च तेषां ब्रह्मत्वेऽन्यान्तरपदयोरानर्थक्यं स्यादित्याहकिञ्चेति / स्वरूपेणैकत्वेऽपि तत्तदुपाधिविशिष्टत्वाकारेण नानात्वमित्याशङ्क्याऽऽह -न चेति / विशिष्टानामपि ब्रह्मत्वमुताब्रह्मत्वम् ? द्वितीये मदिष्टसिद्धिः। आधेऽपि किं तेषां वस्तुतो भेद उताभेदो भेदाभेदो वा ? न सर्वथापीत्याह-रूपान्तरेति / एवं परपक्षे तैत्तिरीयकश्रुतेरसामञ्जस्यमुक्त्वा स्वपक्षे सामञ्जस्यमाह-तस्मादिति /