________________ सटीकाद्वैतदीपिकायाम पुच्छं तु ब्रह्मैव, स्वशब्दात् / न च शरीरित्वमवयवित्वम् / अशरीरश्रुतिविरोधात् / तस्य निरसिष्यमाणत्वाच // अन्नमयादिवाक्यस्याब्रह्मपरावम् यत्वन्नमयादिपर्यायेष्वप्यन्नमयादिशब्देन ब्रह्मैवाभिधीयत इति। तदयुक्तम् / स वा एष पुरुषोऽन्नरसमय इति वाक्ये एषः प्रत्यक्षशिरःपाण्यादिमानाकृतिविशेषः, स वै योऽन्नात् पुरुष इति सर्गवाक्येऽन्नविकारत्वेन निर्दिष्ट एव, तच्छब्देनाव्यवहितान्नविकारस्यैव परामर्शात् / ब्रह्मणश्च व्यवहितत्वात् सर्व नानः सन्निहिताभिधानेनैव पर्यवसानात् / अथवाऽस्य प्रकरणस्य परमात्मविषयत्वेन स इत्यनेन तस्यैव परामर्शेऽपि स एव जीवभावेनानुप्रविष्टोऽन्नरसमयो न तु केवलात्मा, तत्र विकारप्राचुर्यार्थयोरन्यतरस्याप्यसम्भवात् / यत्त्वत्र तेनैवोक्तमाकाशादिपुरुषान्तैः शब्दैरुक्तमाकाशादिसारभूतं ब्रह्म स वा इति तच्छब्देनैष पुरुष इत्येतच्छब्देनापि परामृश्यत इति / तत्तुच्छम्, अन्यवाचनान्याभिधानासम्भवात् / अनेकार्थ वयवत्वप्रतीतेः कथं तन्निरास इत्याशङ्कय तेन स्वप्रधानब्रह्मशब्दसमभिव्याहारात् सबोधारभूतं ब्रह्मोच्यत इत्याह-पुच्छन्त्विति / चतुर्थ दूषयति--न च शरीरित्वमिति // अन्नमयादिवाक्यमपि ब्रह्मविषयमित्युक्तमन्य दूषयति-यत्त्वित्यादिना / ननु सन्निधेः प्रकरणस्य बलीयस्त्वात्प्रकरणिनो ब्रह्मण एव तच्छब्देन परामर्श इत्याशङक्यैबमपि जीवरूपेण ब्रह्मणोऽन्नमयादित्वं न स्वरूपेणेत्याह--अथ वेति / तच्छब्देनाव्यवहितपरामर्श इत्यत्र जयतीर्थनोक्तं यत्सर्गवाक्येप्याकाशादिपदैब्रह्मणोऽभिधानात्तदेवाव्यवहितमिति / .. अत्राथं हेत्वसिद्धया दूषयति-यत्त्वत्रेति / शक्तिभेदेन सम्भवमाशक्याह