________________ प्रथमः परिच्छेदः ब्रह्मात्वे तस्यैव तदवयवत्वानुपपत्तिः। न चैकत्वेन ब्रह्माण्यवयवा. वयवित्वनिराकरणमनुपपन्नम्, तस्य तर्कागोचरत्वात्, अनवय. वत्वप्रमाणाभावाच्चेति वाच्यम्, विचारानारम्भप्रसङ्गात् / ब्रह्मानवयवमात्मत्वाजीववत् “भकायमव्रणम्" "निष्कलं निष्क्रिय शान्तम्", "अपाणिपाद" इत्याद्यनुमानश्रुतिभिरनवयवत्वप्रमितेश्च / न चेश्वरशक्त्याऽवयविनोऽप्यवयवत्वमविरुद्धं तस्याचिन्त्यप्रभावत्वादिति साधु / ईश्वरशक्तेरपि शक्यस्वभावानुरोधादशक्ये शत्तयभावात् / ईशस्यावयवित्वखण्डनम् किं चेदमवयवित्वम् / न तावदवयवारब्धद्रव्यत्वम् / आनन्दमयस्य ब्रह्मणोऽनारब्धत्वात् / अत एव न स्वावयवविशिष्टत्वमपि। अन्यावयववैशिष्ट्ये चावयवब्राण आनन्दमयादन्यत्वेन तदेकत्वं न स्यात् / आनन्दमयो वा ब्रह्म न स्यात् / आनन्दमयस्येति। अन्यत्रैकस्यावयवावयविभावाभावेऽपि ब्रह्मण उपपद्यत इत्या. शङ्कयाह--न चेति / तर्कागोचरत्वे मीमांसानारम्भप्रसङ्गः स्यादिति दूषयति-- विचारेति / द्वितीयहेतुरप्यसिद्ध इत्याह--ब्रह्मानवयवमिति / निष्कलं निरवयवम् / ननु जीवस्य तादृशशक्यभावादनवयवत्वमीश्वरस्याचिन्त्यशक्तिमत्तयाऽवयवावयविभावो न विरुध्यत इत्यत आह--न चेश्वरेति / किमीश्वरावयवी जन्यः, उताजन्यः / नाद्यः, अनित्यत्वप्रसङ्गात् / न द्वितीयः, तत्र शक्तरयोगादित्याह ईश्वरशक्तरिति / किमिदमानन्दमयस्यावययित्वं किमवयवारब्धद्रव्यत्वमुत स्वावयवविशिष्टत्वमाहोस्विदन्यावयवविशिष्टत्वमथवा शरीरित्वमित्यभिप्रेत्याह--किं चेदमिति / आद्यं दूषयति--न तावदिति / द्वितीयं दूषयति--अत एवेति / अनारब्धत्वादेवेत्यर्थः। स्वावयवो नाम स्वारम्भकावयवः स न सम्भवतीत्यर्थः।तृतीयं दूषयति--अन्यावयवेति / ब्रह्मणोऽन्यावयवत्वे स्वावयविनैवैक्यमित्यानन्दमयेनैक्यं न सिद्धयतीत्यर्थः। किं चान्यावयवस्याब्रह्मत्वे तदभेदे मानन्दमयस्याप्यब्रह्मत्वं स्यादित्याह-आनन्दमयो वति / ननु पुच्छपदेन ब्रह्मणोऽ