________________ सटीकाद्वैतदीपिकायाम् जयतीर्थमनिरासः तदसत् / अभ्यासस्य पुच्छब्रह्मविषयत्वेनानन्दमयाविषयत्वात् / न हि तदनभिधायकेन शब्देन तदभ्यासोऽस्ति / न चानन्दमयप्रकरणे श्रुतं ब्रह्मपदं तस्यैव वाचकमिति वाच्यम् / किमानन्दमयस्य प्रकणित्वमभ्याससामर्थ्यात्, किं वान्यतः ? नाथः, परस्पराश्रयत्वप्रसङ्गात् / ब्रह्मपदेनानन्दमयस्य. कल्प्योपस्थितिकत्वात् / न द्वितीयः, अभ्यासादिति सौवहेतुवैयापातात् / न चानन्दमस्य "ब्रह्मविदाप्नोति परम्", त्युपक्रमे "सत्यं ज्ञानमनन्तं ब्रह्मे" इति मन्त्रे "आस्मन आकाश" इत्यादि. ब्राह्मणे स्वशब्देनापरामृष्टस्य प्रकरणित्वं मान्नवर्णिकत्वं वा कम्पयितुं शक्यते / भूतो प्राचुर्गपदाप्रयोगः यत्तु प्रचुरानन्द इति विपरीतसमास इति / तदसत्, श्रुतौ प्रचुरपदाभावात् / मयत्प्रत्ययस्य प्रकृत्या समासासम्भवात् / आनन्दमयस्य ब्रह्मत्वे तस्यैव तदवयवत्वानुपपत्तिः। न चैकत्वेन तदसदिति / ननु तस्यैवायमभ्यास इति नेत्याह--न हीति / आनन्दमयप्रकरणे श्रुतस्य तदनभिधायकत्वमयुक्तमित्यत आह--न चेति / तत्र हेतुं विकल्प. मुखेन दर्शयति-किमानन्दमयस्येति / प्रसङ्गमेवोपपादयति--ब्रह्मपदेनेति / ब्रह्मपदेन प्रकरणित्वादानन्दमयाकारप्रतीतेः कल्प्यत्वादित्यर्थः / द्वितीये तव "आनन्दमयोऽभ्यासात्" इति सूत्रासामञ्जस्यं स्यादित्याह--न द्वितीय इति। अन्यतोऽपि प्रकरणित्वं दुःसम्पादमित्याह-न चानन्दमयस्येति / मान्त्रवणिकत्वं वेति / मन्त्रवर्णप्रमितस्यैव ब्राह्मणवाक्ये प्रतिपाद्यमानत्वान्मन्त्रवर्णिकत्वेनापि प्रकरणित्वं सिध्यति तदपीह नास्तीत्यर्थः। ब्रह्मणि दुःखाभावार्थं विपरीतसमास इत्युक्तमनूद्य दूषयति--यत्त्वित्यादिना / प्राचुर्यवाचकमयट्प्रत्ययोऽस्तीत्याशय समर्थः पदविधिरिति पदाधिकारात् केवलप्रकृतेः प्रत्ययस्य वा अपदत्वान्न समास इत्याह--मयटप्रत्ययस्येति / किं च ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मण आनन्दमयपुच्छत्वाभिधानमनुपपन्नं स्यादित्याह--