________________ प्रथमः परिच्छेदः प्रकरणि "ब्रह्मविदाप्नोति परम्" इत्युपक्रमे "असन्नेव स भवति असब्रह्मेति वेद चेत्" इत्यादिपरामर्शादौ च तस्यैव प्रतीतेः / अत आनन्दमयः कर्तुरहमनुभवगोचरादन्यो जीव एव / जयतीर्थमतानुवन्दः यत्त्वत्र जयतीर्थेनोक्तमानन्दमयो ब्रह्मैष / असन्नेव स भवति असदुब्रोति वेद चेदित्यादिना आनन्दमये ब्रह्मशब्दाभ्यासात् प्राचुयेऽपि मयप्रयोगात् / यथाश्रुताभिधाने च ब्रह्मण्यनानन्दस्यापि प्राप्तिः। प्रचुरानन्द इति विपरीतसमासेन पूर्णानन्द इति प्रतीतेः / अन्नमयादिपर्यायेष्वपि ब्रह्मण एव निर्देशादाकाशादिकारणत्वेनोतस्य तस्यैवान्नमयत्वादिपश्चरूपप्रतिपादनात् / “येऽन्नं ब्रह्मोपासते", "प्राणं ब्रह्मोपासते","आनन्दं ब्रह्मणो विद्वान्","विज्ञानं ब्रह्म चेद्वेद", "अस्ति ब्रह्मोति चेद" इत्यन्नमयादीन् प्रत्युदाहृतइलोकेषु तद्विषयत्वेन ब्रह्मशब्दश्रवणादिति / आनन्दमयशब्दस्य जीवविषयत्वात् पुच्छवाक्यमेव ब्रह्मविषयमित्युपसंहरतितस्मादिति। यद्यपि मतद्वयेऽपि पुच्छपदे लक्षणा तुल्या, तथापि प्रतिष्ठापदसन्निधानादांधारलक्षणवेत्याह--प्रतिष्ठेति। तथा च सर्वाधारभूतं ब्रह्म आनन्दमयस्य प्रतिष्ठापय्यवसितं रूपमिति ब्रह्मैवोच्यत इत्यर्थः / आनन्दमयस्य जीवत्वप्रसाधनफलमाह-अत इति / इदानीमानन्दमयस्य स्वशब्देनाभ्यासाभावेऽपि ब्रह्मशब्देनाभ्यस्यमानत्वात् प्रकरणित्वमित्यश्रुतमीमांसावृत्तान्तस्य वादिनो मतमुत्थापयति--यत्त्विति / प्राचुर्यार्थत्वे उक्तानुपपत्तिमुद्भाव्य परिहरति--यथाश्रुतेति / प्रायपाठपरित्यागोऽपि नास्तीत्याह--अन्नमयादीति / ननु अन्नमयादिवाक्ये ब्रह्मोपस्थापकपदा. भावात् कथं तन्निर्देश इत्याशक्य "स वा एष पुरुष" इत्यादितच्छब्देन प्रकृतब्रह्मण एव ग्रहणादस्ति तदुपस्थितिरित्याह--आकाशादीति / अन्नमयादिषु ब्रह्मशब्दप्रयोगादपि तेषां ब्रह्मरूपत्वमित्याह--येऽन्नं ब्रह्मेति / असद् ब्रह्मेति वेद चेदित्यादि ब्रह्मशब्दाभ्यासस्यान्यविषयत्वादानन्दमयस्याभ्यस्यमानत्वमसिद्धमिति दूषयति--